यावत्तिष्ठति तारुण्यं तावद्भुंजंति मानवाः । सुखभोगादिकं सर्वं स्वेच्छया रमते नरः
यावत्तिष्ठति तारुण्यं तावद्भोगान्प्रभुंजते । वयस्यपि गते भद्रे तारुण्ये किं करिष्यति
संप्राप्ते वार्द्धके देवि किंचित्कार्यं न सिध्यति । स्थविरश्चिंतयेन्नित्यं सुखकार्यं न गच्छति
वयस्यपि गते बाले क्रियते सेतुबंधनम् । तादृशोयं भवेत्कायस्तारुण्ये तु गते शुभे
तस्माद्भुंक्ष्व सुखेनापि पिबस्व मधुमाधवीम् । कामाबाणा दहंत्यंगं तवेमे चारुलोचने
अयमेकः समायातः पुरुषो रूपवान्गुणी । अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी
तवार्थे नित्यसंयुक्तः स्नेहेन वरवर्णिनि । सुकलोवाच- बाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीविते
वृद्धत्वं नास्ति चैवास्य स्वयंसिद्धः सुसिद्धिदः । अमरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः
अकामः कामदो लोके आत्मरूपेण वर्तते । यथा गेहस्य संस्थानं तथा कायस्य दृश्यते
यथा वार्द्धकिना कायस्तथा सूत्रेण मंदिरम् । अनेककाष्ठसंघातैर्नाना दारुसमुच्चयैः
मृत्तिकयोदकेनापि समंतात्परिणामयेत् । लिपितं लेपकैः काष्ठं चित्रं भवति चित्रकैः
प्रथमं रूपमायाति गृहं सूत्रेण सूत्रितम् । पुष्णंति च स्वयं तत्तु लेपनाद्वै दिने दिने
वायुनांदोलितं नित्यं गृहं च मलिनायते । मध्यमो वर्तुतः कालो गृहस्य परिकथ्यते
रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेत् । स्वेच्छया च गृहस्वामी रूपवत्त्वं नयेद्गृहम्
तारुण्यं तस्य गेहस्य दूतिके परिकथ्यते । काष्ठसंघैश्च जीर्णत्वं बहुकालैः प्रयाति सः
स्थानभ्रष्टाः प्रजायंते मूलाग्रे प्रचलंति ते । न सहेल्लेपनाभारमाधारेण प्रतिष्ठति
एतद्गृहस्य वार्द्धक्यं कथितं शृणु दूतिके । पतमानं गृहं दृष्ट्वा गृहस्वामी परित्यजेत्
गृहमन्यं प्रवेशाय प्रयात्येव हि सत्वरम् । तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च
स बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेत् । चित्रयेत्कायमेवापि वस्त्रालंकारभूषणैः
लेपनैश्चंदनैश्चान्यैस्तांबूलप्रभवादिभिः । कायस्तरुणतां याति अतिरूपो विजायते
बाह्याभ्यंतरमेवापि रसैः सर्वैः प्रपोषयेत् । तेन पोषणभावेन परिपुष्टः प्रजायते
जायते मांसवृद्धिस्तु रसैश्चापि नवोत्तमा । यांति विस्तरतां राजन्नंगान्याप्यायितान्यपि
प्रत्यंगानि रसैश्चैव स्वंस्वं रूपं प्रयांति वै । दंताधरौ स्तनौ बाहू कटिपृष्ठमुरू उभे
हस्तपादतलौ तद्वद्वृद्धित्वं प्रतिपेदिरे । उभाभ्यामपि तान्येव वृद्धिमायांति तानि वै
अंगानि रसमांसाभ्यां सुरूपाणि भवंति ते । तैः स्वरूपैर्भवेन्मर्त्यो रसबद्धश्च दूतिके
सुरूपः कथ्यते मर्त्यो लोके केन प्रियो भवेत् । विष्ठामूत्रस्य वै कोशः काय एष च दूतिके
अपवित्रशरीरोयं सदा स्रवति निर्घृणः । तस्य किं वर्ण्यते रूपं जलबुद्बुदवच्छुभे
यावत्पंचाशद्वर्षाणि तावत्तिष्ठति वै दृढः । पश्चाच्च जायते हानिस्तस्यैवापि दिनेदिने
दंताः शिथिलतां यांति तथा लालायते मुखम् । चक्षुर्भ्यामपि पश्येन्न कर्णाभ्यां न शृणोति च
गतिं कर्तुं न शक्नोति हस्तपादैश्च दूतिके । अक्षमो जायते कायो जराकालेन पीडितः