येनाहमुद्धरे त्वां वै तन्मे त्वं वद सांप्रतम् । शूकर्युवाच- अयं राजा महाभाग इक्ष्वाकुर्मनुनंदनः
विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा । पतिव्रता महाभागा पतिव्रतपरायणा
त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया । देवि सर्वमयी नित्यं सर्वदेवमयी सदा
महापतिव्रता लोक एका त्वं नृपतेः प्रिया । यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम्
एकस्य दिवसस्यापि पुण्यं देहि वरानने । पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम्
मम माता पिता त्वं वै त्वं मे गुरुः सनातनः । अहं पापा दुराचारा असत्या ज्ञानवर्जिता
मामुद्धर महाभागे भीताहं यमताडनैः । सुकलोवाच- एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा
किं करोमि महाराज एषा किं वदते पशुः । इक्ष्वाकुरुवाच- एनां दुःखां वराकीं वै पापयोनिं गतां शुभे
समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति । एवमुक्ता वरा नारी सुदेवा चारुमंगला
उवाचैकाब्दपुण्यं ते मया दत्तं वरानने । एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात्
रूपयौवनसंपन्ना दिव्यमालाविभूषिता । दिव्यदेहा च संभूता तेजोज्वालासमावृता
सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता । संजाता दिव्यरूपा सा दिव्यगंधानुलेपना
दिव्यं विमानमारूढा अंतरिक्षं गता सती । तामुवाच ततो राज्ञीं प्रणतानतकंधरा
स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुंदरि । व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम्
प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम । एतत्ते सर्वमाख्यातं सुकलाया निवेदितम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणंनाम द्विपंचाशत्तमोऽध्यायः
सुकलोवाच- एवं धर्मं श्रुतं पूर्वं पुराणेषु तदा मया । पतिहीना कथं भोगं करिष्ये पापनिश्चया
कांतेन तु विना तेन जीवं काये न धारये । विष्णुरुवाच- एवमुक्त्वा परं धर्मं पतिव्रतमनुत्तमम्
तास्तु सख्यो वरा नार्यो हर्षेण महतान्विताः । श्रुत्वा धर्मं परं पुण्यं नारीणां गतिदायकम्
स्तुवंति तां महाभागां सुकलां धर्मवत्सलाम् । ब्राह्मणाश्च सुराः सर्वे पुण्यस्त्रियो नरोत्तम
तस्या ध्यानं प्रकुर्वंति पतिकामप्रभावतः । अत्यर्थं दृढतामिंद्र सुःविचिंत्य सुरेश्वरः
सुकलायाः परं भावं सुविचार्यामरेश्वरः । चालये धैर्यमस्याश्च पतिस्नेहं न संशयः
सस्मार मन्मथं देवं त्वरमाणः सुराधिपः । पुष्पचापं स संगृह्य मीनकेतुः समागतः
प्रियया च तया युक्तो रत्या दृष्टमहाबलः । बद्धांजलिपुटो भूत्वा सहस्राक्षमुवाच सः
कस्मादहं त्वया नाथ अधुना संस्मृतो विभो । आदेशो दीयतां मेद्य सर्वभावेन मानद
इंद्र उवाच- सुकलेयं महाभागा पतिव्रतपरायणा । शृणुष्व कामदेव त्वं कुरु साहाय्यमुत्तमम्
निष्कर्षय महाभागां सुकलां पुण्यमंगलाम् । तच्छ्रुत्वा वचनं तस्य शक्रस्य तमथाब्रवीत्
एवमस्तु सहस्राक्ष करिष्यामि न संशयः । साहाय्यं देवदेवेश तव कौतुककारणात्
एवमुक्त्वा महातेजाः कंदर्पो मुनिदुर्जयः । देवाञ्जेतुं समर्थोऽहं समुनीनृषिसत्तमान्
किं पुनः कामिनीं देव यस्या अंगे न वै बलम् । कामिनीनामहं देव अंगेषु निवसाम्यहम्