पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना । करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम्
अन्येष्वेव नरकेषु पातिता नृपनंदिनि । योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसंकटे
धर्मराजेन तेनाहं नरकेषु निपातिता । वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम्
गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता । सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम्
एवं योनिविशेषेषु पापयोनिषु तेन च । क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु
तेनैवाहं कृता भूमौ शूकरी नृपनंदिनि । तवहस्ते महाभागे संति तीर्थान्यनेकशः
तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि । मम पापं गतं देवि प्रसादात्तव सुंदरि
तवैव तेजःपुण्येन जातं ज्ञानं वरानने । इदानीं मामुद्धरस्व पतितां नरकसंकटे
यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम् । नरकं च महाभागे त्राहि मां दुःखभागिनीम्
गताहं पापभावेन दीनाहं च निराश्रया । सुदेवोवाच- किं कृतं हि मया भद्रे सुकृतं पुण्यसंभवम्
येनाहमुद्धरे त्वां वै तन्मे त्वं वद सांप्रतम् । शूकर्युवाच- अयं राजा महाभाग इक्ष्वाकुर्मनुनंदनः
विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा । पतिव्रता महाभागा पतिव्रतपरायणा
त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया । देवि सर्वमयी नित्यं सर्वदेवमयी सदा
महापतिव्रता लोक एका त्वं नृपतेः प्रिया । यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम्
एकस्य दिवसस्यापि पुण्यं देहि वरानने । पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम्
मम माता पिता त्वं वै त्वं मे गुरुः सनातनः । अहं पापा दुराचारा असत्या ज्ञानवर्जिता
मामुद्धर महाभागे भीताहं यमताडनैः । सुकलोवाच- एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा
किं करोमि महाराज एषा किं वदते पशुः । इक्ष्वाकुरुवाच- एनां दुःखां वराकीं वै पापयोनिं गतां शुभे
समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति । एवमुक्ता वरा नारी सुदेवा चारुमंगला
उवाचैकाब्दपुण्यं ते मया दत्तं वरानने । एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात्
रूपयौवनसंपन्ना दिव्यमालाविभूषिता । दिव्यदेहा च संभूता तेजोज्वालासमावृता
सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता । संजाता दिव्यरूपा सा दिव्यगंधानुलेपना
दिव्यं विमानमारूढा अंतरिक्षं गता सती । तामुवाच ततो राज्ञीं प्रणतानतकंधरा
स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुंदरि । व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम्
प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम । एतत्ते सर्वमाख्यातं सुकलाया निवेदितम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणंनाम द्विपंचाशत्तमोऽध्यायः
सुकलोवाच- एवं धर्मं श्रुतं पूर्वं पुराणेषु तदा मया । पतिहीना कथं भोगं करिष्ये पापनिश्चया
कांतेन तु विना तेन जीवं काये न धारये । विष्णुरुवाच- एवमुक्त्वा परं धर्मं पतिव्रतमनुत्तमम्
तास्तु सख्यो वरा नार्यो हर्षेण महतान्विताः । श्रुत्वा धर्मं परं पुण्यं नारीणां गतिदायकम्
स्तुवंति तां महाभागां सुकलां धर्मवत्सलाम् । ब्राह्मणाश्च सुराः सर्वे पुण्यस्त्रियो नरोत्तम