मुच्यते नाममात्रेण प्रसादात्केशवस्य तु । कलौ द्वारवती रम्या धन्यो देवो जनार्दनः
ये पश्यंति नरा देवं मुक्तिस्तेषां सुनिश्चला । एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुम्
चिंतयामि महादेवि विद्वत्संस्थो जनार्दनम् । अष्टोत्तरं तु तीर्थानां शतमेतदुदाहृतम्
यो जपेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । एषु तीर्थेषु यः स्नात्वा पश्येन्नारायणं हरिम्
सर्वपापविनिर्मुक्तो याति विष्णोः सनातनम् । जगन्नाथं महातीर्थं लोकानां पावनं स्मृतम्
ये गच्छंति नरश्रेष्ठास्तेपि यांति परां गतिम् । शताष्टकं महापुण्यं श्रावयेत्पितृकर्मणि
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् । गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः
देवार्चनविधौ विद्वान्परं ब्रह्माधिगच्छति
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे जंबूद्वीपतीर्थवर्णनंनाम त्रयस्त्रिंशाधिकशततमोऽध्यायः
महादेव उवाच। वेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु सुंदरि । यत्र स्नात्वा विमुच्यंते यावदाभूतसंप्लवम्
वृत्रेण च कृतः कूपो महागंभीरसंज्ञकः । कूपात्सा निःसृता देवी महापापौघनाशिनी
यथा गंगा तथेयं च सरिच्छ्रेष्ठा सुरोत्तमे । अस्या दर्शनमात्रेण पापौघाः शमयंति च
शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् । यच्छ्रुत्वा पापिनो दोषैर्विमुक्ताः कर्मबंधनात्
चंपके नगरे चैव राजा राज्यं करोति सः । सदा दुष्टो दुष्टरूपो जनानां स प्रपीडकः
अधर्मो धर्मरूपश्च विष्णुनिंदापरायणः । देव द्विज निहंता च आश्रमाणां विदूषकः
वेदनिंदापरः श्रीमान्मूर्खो वा निर्घृणः शठः । असच्छास्त्रेषु निरतः परदाराभिमर्शकः
विदारुणेति नामा च संजातो मूर्ख एव च । कदाचिद्दैवयोगेन आगतस्तां नदीं प्रति
आखेटकसमायुक्तः स्वयं कुष्ठी सुरेश्वरि । महापापादयं जातो ब्राह्मणानां च निंदनात्
वृथावादी दुरात्मा च शठो वै निर्घृणः पशुः । वेदनिंदारतो नित्यं गोशास्त्राणां प्रदूषकः
एवंविधो वने भ्राम्यंस्तृषार्तः स सुहृद्वृतः । अश्वादुत्तीर्य राजाऽसौ जलं पीत्वा गृहं गतः
तेनैवोदकपानेन गतं कुष्ठं न संशयः । बुद्धिस्तु निर्मला जाता तस्य राज्ञो विशेषतः
विष्णौ भक्तिः समुत्पन्ना तदा तस्य सुरेश्वरि । ततः प्रभृति कालेन स्नानं वै कृतवान्सदा
निर्मलो बहुरूपाढ्यो जातस्तत्र सुरेश्वरि । इहलोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः
विप्रेभ्यो दक्षिणां दत्वा स गतो वैष्णवं पदम् । इति ज्ञात्वा तु भो देवि वेत्रवत्यां विशेषतः
स्नानं कुर्वंति ये विप्रास्ते मुक्ता नगनंदिनि । राजन्यो वाथ वैश्यो वा शूद्रो वा सुरसत्तमे
यत्र स्नानं प्रकुर्वंति ते मुक्ताः पापबंधनात् । कार्तिके वाऽथ माघे वा बाह्यो वा वेदनिंदकः
सरितां संगमे स्नात्वा मुच्यते देवि किल्बिषात् । साभ्रमत्याः समं यत्र तस्याः संगः प्रदृश्यते
तत्र स्नात्वा विशेषेण मुच्यते ब्रह्महा सदा । खेटकं नगरं दिव्यं स्वर्गरूपं तु वाऽनघे
ब्रह्मणा तत्र वै देवि योगाश्च बहवः कृताः । तत्र स्नात्वा च भुक्त्वा च पुनर्जन्म न विद्यते
सा द्वितीया स्मृता गंगा कलौ देवि विशेषतः । ये नराः सुखमिच्छंति धनमिच्छंति ये नराः