सुदेवा नाम भद्रेयं मम जाया प्रिया सदा । केनापि कारणेनैव देशं त्यक्त्वा समागता
ममदुःखेन दग्धेयं वियोगेन वरानने । मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम्
एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम् । कर्त्तव्यं न च संदेह इच्छंत्या मम सुप्रियम्
भर्तुर्वाक्यं निशम्यैव मंगला पतिदेवता । हर्षेण महताविष्टा स्वयमेव सुमंगला
स्नानाच्छादन भोज्यं च मम चक्रे वरानने । रत्नकांचनयुक्तैश्चाभरणैश्च पतिव्रता
अहं हि भूषिता भद्रे तयैव पतिकाम्यया । तयाहं भूषिता देवि मानस्नानैश्च भोजनैः
भर्त्राहं मानिता देवि जातं दुःखमनंतकम् । ममोरसि महातीव्रं सर्वप्राणविनाशनम्
तस्या मानो मया दृष्टो दुःखमात्मगतं तथा । चिंता मे दारुणा जाता यया प्राणा व्रजंति मे
कदापि वचनं दत्तं न मया पापया शुभम् । अस्यैव विप्रवर्यस्य आचरंत्या च दुष्कृतम्
पादप्रक्षालनं नैव अंगसंवाहनं नहि । एकांतं न मया दत्तं तस्यैव हि महात्मनः
संभाषां कथमस्यैव करिष्ये पापनिश्चया । रात्रौ चैव तदा तत्र पतिता दुःखसागरे
एवं हि चिंतमानायाः स्फुटितं हृदयं मम । गताः प्राणास्तदा कायं परित्यज्य वरानने
तत्र दूताः समायाता धर्मराजस्य वै तदा । वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः
तैस्तु बद्धा महाभागे शृंखलैर्दृढबंधनैः । नीता यमपुरं तैस्तु रुदमाना सुदुःखिता
मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता । भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता
दृष्टाहं यमराजेन सक्रोधेन महात्मना । अंगारसंचये क्षिप्ता क्षिप्ता नरकसंचये
लोहस्य पुरुषं कृत्वा अग्निना परितापितः । ममोरसि समुत्क्षिप्तो निजभर्तुश्च वंचनात्
नानापीडातिसंतप्ता नरकाग्निप्रतापिता । तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि
असिपत्रैश्च संच्छिन्ना जलमंत्रेण वाहिता । कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना
पूयशोणितविष्ठायां पतिता कृमिसंकुले । सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनंदिनि
पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना । करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम्
अन्येष्वेव नरकेषु पातिता नृपनंदिनि । योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसंकटे
धर्मराजेन तेनाहं नरकेषु निपातिता । वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम्
गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता । सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम्
एवं योनिविशेषेषु पापयोनिषु तेन च । क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु
तेनैवाहं कृता भूमौ शूकरी नृपनंदिनि । तवहस्ते महाभागे संति तीर्थान्यनेकशः
तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि । मम पापं गतं देवि प्रसादात्तव सुंदरि
तवैव तेजःपुण्येन जातं ज्ञानं वरानने । इदानीं मामुद्धरस्व पतितां नरकसंकटे
यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम् । नरकं च महाभागे त्राहि मां दुःखभागिनीम्
गताहं पापभावेन दीनाहं च निराश्रया । सुदेवोवाच- किं कृतं हि मया भद्रे सुकृतं पुण्यसंभवम्