दशाब्दाश्च गता यावत्तावद्वृद्धिमवाप्तवान् । पश्चाज्जज्ञे महातेजाः कंसोभूत्स महाबलः
येन संत्रासिता लोकास्त्रैलोक्यस्य निवासिनः । यो हतो वासुदेवेन गतो मोक्षं न संशयः
एवं श्रुतं मया कांत भविष्यं तु भविष्यति । पुराणेष्वेव सर्वेषु निश्चितं कथितं तव
पितृगेहेस्थिता कन्या नाशमेवं प्रयाति सा । गृहावासाय मे कांत कन्या मोहं न कारयेत्
इमां दुष्टां महापापां परित्यज्य स्थिरो भव । प्राप्तव्यं तु महापापं दुःखं दारुणमेव च
लोके श्रेयःकरं कांत तद्भुंक्ष्व त्वं मया सह । शूकर्युवाच- एतद्वाक्यं सुमंत्रं तु श्रुत्वा स हि द्विजोत्तमः
त्यागे मतिं चकारासौ समाहूता ह्यहं तदा । सकलं वस्त्रशृंगारं मम दत्तं शुभे शृणु
तवैव दुर्नयैर्विप्रः शिवशर्मा द्विजोत्तमः । गतो वै मतिमान्दुष्टे कुलदुष्टप्रचारिणि
यत्र ते तिष्ठते भर्ता तत्र गच्छ न संशयः । तव यद्रोचते स्थानं यथादिष्टं तथा कुरु
एवमुक्त्वा महाभागे पितृमातृकुटुंबकैः । परित्यक्ता गता शीघ्रं निर्लज्जाहं वरानने
न लभाम्यहमेवापि वासस्थानं सुखं शुभे । भर्त्सयंति च मां लोकाः पुंश्चलीयं समागता
अटमाना गता देशात्कुलमानेन वर्जिता । देशे गुर्जरके पुण्ये सौराष्ट्रे शिवमंदिरे
वनस्थलेति विख्यातं नगरं वृद्धिसंकुलम् । अतीव पीडिता देवि क्षुधयाहं तदा शृणु
कर्परं हि करे गृह्य भिक्षार्थमुपचक्रमे । गृहिणां द्वारदेशेषु प्रविशामि सुदुःखिता
मम रूपं विपश्यंति लोकाः कुत्संति भामिनि । न ददंते च मे भिक्षां पापा चेयं समागता
एवं दुःखसमाहारा दारिद्र्यपरिपीडिता । अटंत्या च मया दृष्टं गृहमेकमनुत्तमम्
तुंगप्राकारसंवेष्टं वेदशालासमन्वितम् । वेदध्वनिसमाकीर्णं बहुविप्रसमाकुलम्
धनधान्यसमाकीर्णं दासीदासैरलंकृतम् । प्रविवेश गृहं रम्यं लक्ष्मीमुदितमेव तत्
तद्गृहं सर्वतोभद्रं तस्यैव शिवशर्मणः । भिक्षां देहीत्युवाचाथ सुदेवा दुःखपीडिता
शिवशर्माथ शुश्राव भिक्षाशब्दं द्विजोत्तमः । मंगलां नाम वै भार्यां लक्ष्मीरूपां वराननाम्
तां हसन्प्राह धर्मात्मा शिवशर्मा महामतिः । इयं हि दुर्बला प्राप्ता भिक्षार्थं द्वारमागता
समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे । कृपया परयाविष्टा ज्ञात्वा मां तु समागताम्
प्रोवाच मंगला कांतं दास्यामि प्रिय भोजनम् । एवमुक्त्वा च भर्तारं मंगला मंगलान्विता
पुनर्मां भोजयामास मिष्टान्नेन सुदुर्बलाम् । मामुवाच स धर्मात्मा शिवशर्मा महामुनिः
का त्वमत्र समायाता कस्य वा भ्रमसे जगत् । केन कार्येण सर्वत्र कथयस्व ममाग्रतः
एवमाकर्ण्य तद्वाक्यं भर्तुश्चैव महात्मनः । स्वरेण लक्षितः कांतो मया वै पापया तदा
व्रीडयाधोमुखीजाता दृष्टो भर्ता यदा मया । मंगला चारुसर्वांगी भर्तारमिदमब्रवीत्
का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति । कथयस्व प्रसादेन का च एषा भविष्यति
शिवशर्मोवाच-। मंगले श्रूयतां वाक्यं यदि पृच्छसि सांप्रतम् । यदर्थं हि त्वया पृष्टं तन्निबोध वरानने
इयं हि सांप्रतं प्राप्ता वराकी भिक्षुरूपिणी । वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने