तान्वयं शासयामो वै दंडेन महता किल । भवत्या दारुणं कर्म कृतमेव सुनिर्घृणम्
गार्हस्थ्यं च परित्यज्य अत्रायाता किमर्थतः । वदस्येवं मुखेनापि अहं हि पतिदेवता
कर्मणा नास्ति तद्दृष्टं पतिदैवत्यमेव ते । भर्तारं तं परित्यज्य किमर्थं त्वमिहागता
शृंगारं भूषणं वेषं कृत्वा तिष्ठसि निर्घृणा । किमर्थं हि कृतं पापे कस्यहेतोर्वदस्व मे
निःशंका वर्त्तसे चापि प्रमत्ता गिरिकानने । मया त्वं साधिता पापा दंडेन महता शृणु
अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता । क्वास्ते तत्पतिदेवत्वं दर्शय त्वं ममाग्रतः
भवती पुंश्चली नाम यया त्यक्तः स्वकः पतिः । पृथक्छय्या यदा नारी तदा सा पुंश्चली मता
योजनानां शतैकस्य सोन्तरेण प्रवर्त्तते । क्वास्ति ते पतिदैवत्यं पुंश्चल्याचारचारिणी
निर्लज्जे निर्घृणे दुष्टे किं मे वदसि संमुखी । तपसः क्वास्ति ते भावः क्व तेजोबलमेव च
दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम् । पद्मावत्युवाच- स्नेहेनापि समानीता श्रूयतामसुराधम
भर्तुर्गेहादहं पित्रा क्वास्ते तत्र च पातकम् । नैव कामान्न लोभाच्च न मोहान्न च मत्सरात्
आगताहं पतिं त्यक्त्वा पतिभावेन संस्थिता । भर्तृरूपच्छलेनापि त्वयैव परिवंचिता
भवंतं माथुरं ज्ञात्वा गताहं सम्मुखं तव । मायाविनं यदा जाने त्वामेवं दानवाधम
एकेन हुंकृतेनैव भस्मीभूतं करोम्यहम् । गोभिल उवाच- चक्षुर्हीना न पश्यंति मानवाः शृणु सांप्रतम्
धर्मनेत्रविहीना त्वं कथं जानासि मामिह । यदा ते भाव उत्पन्नः पितुर्गेहं प्रति शृणु
पतिध्यानं परित्यज्य मुक्ता ध्यानेन त्वं तदा । ज्ञाननेत्रं तदा नष्टं स्फुटं च हृदये तव
कथं मां त्वं विजानासि ज्ञानचक्षुर्हता भुवि । कस्या माता पिता भ्राता कस्याः स्वजनबांधवाः
सर्वस्थाने पतिर्ह्येको भार्यायास्तु न संशयः । इत्युक्त्वा हि प्रहस्यैव गोभिलो दानवाधमः
न भयं विद्यते तेऽद्य ममापि शृणु पुंश्चलि । किं भवेत्तव शापेन वृथैव परिकंपसे
ममगेहं समाश्रित्य भुंक्ष्व भोगान्मनोऽनुगान् । पद्मावत्युवाच- गच्छ पापसमाचार किं त्वं वदसि निर्घृणः
सतीभावेन संस्थास्मि पतिव्रतपरायणा । धक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि
एवमुक्त्वा तथैकांते निषसाद महीतले । दुःखेन महताविष्टां तामुवाच स गोभिलः
तवोदरे मया न्यस्तं स्ववीर्यं सुकृतं शुभे । तस्मादुत्पत्स्यते पुत्रस्त्रैलोक्यक्षोभकारकः
एवमुक्त्वा जगामाथ गोभिलो दानवस्तदा । गते तस्मिन्दुराचारे दानवे पापचारिणी
दुःखेन महताविष्टा नृपकन्या रुरोद ह
ब्राह्मण्युवाच- गते तस्मिन्दुराचारे गोभिले पापचेतसि । पद्मावती रुरोदाथ दुःखेन महतान्विता
तस्यास्तु रुदितं श्रुत्वा सख्यः सर्वा द्विजोत्तम । पप्रच्छुस्तां राजकन्यां ताः सर्वाश्च वराननाः
कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम् । क्व गतोऽसौ महाराजो माथुराधिपतिस्तव
येन त्वं हि समाहूता प्रियेत्युक्त्वा वदस्व नः । ता उवाच सुदुःखेन रोदमाना पुनः पुनः
तया आवेदितं सर्वं यज्जातं दोषसंभवम् । ताभिर्नीता पितुर्गेहं वेपमाना सुदुःखिता