यः पुत्रो गुणवाञ्ज्ञाता पितरं पालयेच्छुभः । मातरं च विशेषेण मनसा काय कर्मभिः
तस्य भागीरथी स्नानमहन्यहनि जायते । अन्यथा कुरुते यो हि स पापीयान्न संशयः
अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम् । वाचा सुमनसा चैव कर्मणा शृणु भामिनि
शुश्रूषां कुरुते या हि भर्तुश्चैव दिन दिने । तुष्टे भर्त्तरि या प्रीता न त्यजेत्क्रोधनं पुनः
तस्य दोषं न गृह्णाति ताडिता तुष्यते पुनः । भर्त्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा
सा चापि कथ्यते नारी पतिव्रतपरायणा । पतितोपि पितापुत्रैर्बहुदोषसमन्वितः
कस्मादपि च न त्याज्यः कुष्ठितः क्रुधितोऽपि वा । एवं पुत्राः शुश्रूषंति पितरं मातरं किल
ते यांति परमं लोकं तद्विष्णोः परमं पदम् । एवं हि स्वामिनं ये वै उपाचरंति भृत्यकाः
पत्युर्लोकं प्रयांत्येते प्रसादात्स्वामिनस्तदा । अग्निं नैव त्यजेद्विप्रो ब्रह्मलोकं प्रयाति सः
अग्नित्यागकरो विप्रो वृषलीपतिरुच्यते । स्वामिद्रोही भवेद्भृत्यः स्वामित्यागान्न संशयः
अग्निं च पितरं चैव न त्यजेत्स्वामिनं शुभे । सदा विप्रः सुतो भृत्यः सत्यं सत्यं वदाम्यहम्
परित्यज्य प्रगच्छंति ते यांति नरकार्णवम् । पतितं व्याधितं देवि विकलं कुष्ठिनं तथा
सर्वकर्मविहीनं च गतवित्तादिसंचयम् । भर्तारं न त्यजेन्नारी यदि श्रेय इहेच्छति
त्यक्त्वा कांतं व्रजेन्नारी अन्यत्कार्यमिहेच्छति । सा मता पुंश्चली लोके सर्वधर्मबहिष्कृता
गते भर्तरि या ग्रामं भोगं शृंगारमेव च । लौल्याच्च कुरुते नारी पुंश्चली वदते जनः
एवं धर्मं विजानामि वेदशास्त्रैश्च संमतम् । दानवा राक्षसाः प्रेता धात्रा सृष्टा यदादितः
तत्रेह कारणं सर्वं प्रवक्ष्यामि न संशयः । ब्राह्मणा दानवाश्चैव पिशाचाश्चैव राक्षसाः
धर्मार्थं सकलं प्रोक्तमधीतं तैस्तु सुंदरि । विंदंति सकलं सर्वे आचरंति न दानवाः
विधिहीनं प्रकुर्वंति दानवा ज्ञानवर्जिताः । अन्यायेन व्रजंत्येते मानवा विधिवर्जिताः
तेषां शासनहेत्वर्थं कृता एतेपि नान्यथा । विधिहीनं प्रकुर्वंति ये हि धर्मं नराधमाः
तान्वयं शासयामो वै दंडेन महता किल । भवत्या दारुणं कर्म कृतमेव सुनिर्घृणम्
गार्हस्थ्यं च परित्यज्य अत्रायाता किमर्थतः । वदस्येवं मुखेनापि अहं हि पतिदेवता
कर्मणा नास्ति तद्दृष्टं पतिदैवत्यमेव ते । भर्तारं तं परित्यज्य किमर्थं त्वमिहागता
शृंगारं भूषणं वेषं कृत्वा तिष्ठसि निर्घृणा । किमर्थं हि कृतं पापे कस्यहेतोर्वदस्व मे
निःशंका वर्त्तसे चापि प्रमत्ता गिरिकानने । मया त्वं साधिता पापा दंडेन महता शृणु
अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता । क्वास्ते तत्पतिदेवत्वं दर्शय त्वं ममाग्रतः
भवती पुंश्चली नाम यया त्यक्तः स्वकः पतिः । पृथक्छय्या यदा नारी तदा सा पुंश्चली मता
योजनानां शतैकस्य सोन्तरेण प्रवर्त्तते । क्वास्ति ते पतिदैवत्यं पुंश्चल्याचारचारिणी
निर्लज्जे निर्घृणे दुष्टे किं मे वदसि संमुखी । तपसः क्वास्ति ते भावः क्व तेजोबलमेव च
दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम् । पद्मावत्युवाच- स्नेहेनापि समानीता श्रूयतामसुराधम