सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम् । पश्य मे बलमत्रैव शापं दास्ये सुदारुणम्
एवं संभाषमाणा तं शप्तुकामा तु गोभिलम्
सुकलोवाच- तस्यास्तु वचनं श्रुत्वा गोभिलो वाक्यमब्रवीत् । भवती शप्तुकामासि कस्मान्मे कारणं वद
केन दोषेण लिप्तोस्मि यस्मात्त्वं शप्तुमुद्यता । गोभिलो नाम दैत्योस्मि पौलस्त्यस्य भटः शुभे
दैत्याचारेण वर्तामि जाने विद्यामनुत्तमाम् । वेदशास्त्रार्थवेत्तास्मि कलासु निपुणः पुनः
एवं सर्वं विजानामि दैत्याचारं शृणुष्व मे । परस्वं परदारांश्च बलाद्भुंजामि नान्यथा
वयं दैत्याः समाकर्ण्य दैत्याचारेण सांप्रतम् । वर्त्तामो ज्ञानिभावेन सत्यं सत्यं वदाम्यहम्
ब्राह्मणानां हि च्छिद्राणि विपश्यामो दिने दिने । तेषां हि तपसो नाशं विघ्नैः कुर्मो न संशयः
छिद्रं प्राप्य वयं देवि नाशयामो न संशयः । ब्राह्मणाञ्छ्रूयतां भद्रे देवयज्ञं वरानने
नाशयामो वयं यज्ञान्धर्मयज्ञं न संशयः । सुब्राह्मणान्परित्यज्य देवं नारायणं प्रभुम्
पतिव्रतां महाभागां सुमतिं भर्तृतत्पराम् । दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः
तेजो देवि सुविप्रस्य हरेश्चैव महात्मनः । नार्याः पतिव्रतायाश्च सोढुं दैत्याश्च न क्षमाः
पतिव्रताभयेनापि विष्णोः सुब्राह्मणस्य च । नश्यंति दानवाः सर्वे दूरं राक्षसपुंगवाः
अहं दानवधर्मेण विचरामि महीतलम् । कस्मात्त्वं शप्तुकामासि मम दोषो विचार्यताम्
पद्मावत्युवाच- मम धर्मः सुकायश्च त्वयैव परिनाशितः । अहं पतिव्रता साध्वी पतिकामा तपस्विनी
स्वमार्गे संस्थिता पाप मायया परिनाशिता । तस्मात्त्वामप्यहं दुष्ट आधक्ष्यामि न संशयः
गोभिल उवाच- धर्ममेव प्रवक्ष्यामि भवती यदि मन्यते । अग्निचिद्ब्राह्मणस्यापि श्रूयतां नृपनंदिनी
जुह्वन्देवं द्विकालं यो न त्यजेदग्निमंदिरम् । स चाग्निहोत्री भवति यजत्येव दिनेदिने
अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्मं वरानने । मनसा कर्मणा वाचा विशुद्धो योऽपि नित्यशः
नित्यमादेशकारी यः पश्चात्तिष्ठति चाग्रतः । स भृत्यः कथ्यते देवि पुण्यभागी न संशयः
यः पुत्रो गुणवाञ्ज्ञाता पितरं पालयेच्छुभः । मातरं च विशेषेण मनसा काय कर्मभिः
तस्य भागीरथी स्नानमहन्यहनि जायते । अन्यथा कुरुते यो हि स पापीयान्न संशयः
अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम् । वाचा सुमनसा चैव कर्मणा शृणु भामिनि
शुश्रूषां कुरुते या हि भर्तुश्चैव दिन दिने । तुष्टे भर्त्तरि या प्रीता न त्यजेत्क्रोधनं पुनः
तस्य दोषं न गृह्णाति ताडिता तुष्यते पुनः । भर्त्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा
सा चापि कथ्यते नारी पतिव्रतपरायणा । पतितोपि पितापुत्रैर्बहुदोषसमन्वितः
कस्मादपि च न त्याज्यः कुष्ठितः क्रुधितोऽपि वा । एवं पुत्राः शुश्रूषंति पितरं मातरं किल
ते यांति परमं लोकं तद्विष्णोः परमं पदम् । एवं हि स्वामिनं ये वै उपाचरंति भृत्यकाः
पत्युर्लोकं प्रयांत्येते प्रसादात्स्वामिनस्तदा । अग्निं नैव त्यजेद्विप्रो ब्रह्मलोकं प्रयाति सः
अग्नित्यागकरो विप्रो वृषलीपतिरुच्यते । स्वामिद्रोही भवेद्भृत्यः स्वामित्यागान्न संशयः