दयिता उग्रसेनस्य पतिव्रतपरायणा । आत्मबलेन तिष्ठंती दुष्प्राप्या पुरुषैरपि
उग्रसेनो महामूर्खः प्रेषिता येन वै वरा । पितुर्गेहमियं बाला स तु भाग्येन वर्जितः
अनया विना स जीवेच्च कथं कूटमतिः सदा । किं वा नपुंसको राजा एनां यो हि परित्यजेत्
तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि । इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि
कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत् । अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि
अद्यैव हि न संदेहो यतः कामो महाबलः । इति चिंतापरो भूत्वा गोभिलो मनसैक्षत
कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः । यादृशस्तूग्रसेनश्च सांगोपांगो महानृपः
गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया । यथावस्त्रो यथावेशो वयसा च तथा पुनः
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः । सर्वाभरणशोभांगो यादृशो माथुरेश्वरः
भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा । मायया परया युक्तो रूपलावण्यसंपदा
पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः । शिलातलस्थो दुष्टात्मा वीणादंडेन वीरकः
सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम् । तालमानक्रियोपेतं सप्तस्वरविभूषितम्
गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः । पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः
सखीमध्यगता सा तु पद्मावती वरानना । शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम्
कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम् । गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम्
सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा । अशोकच्छायामाश्रित्य विमले सुशिलातले
ददर्श भूपवेषेण गोभिलं दानवाधमम् । पुष्पमालांबरधरं दिव्यगंधानुलेपनम्
सर्वाभरणशोभांगं पद्मावती पतिव्रता । मथुरेशः समायातः कदा धर्मपरायणः
मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः । यावद्धि चिंतयेत्सा च तावत्पापेन तेन सा
समाहूता तुरीभूय एहि त्वं हि प्रिये मम । चकिताशंकितासाचकथंभर्त्तासमागतः
लज्जिता दुःखिता जाता अधःकृत्वा ततो मुखम् । अहं पापा दुराचारा निःशंका परिवर्तिता
कोपमेवं महाभागः करिष्यति न संशयः । यावद्धि चिंतयेत्सा च तावत्तेनापि पापिना
समाहूता तुरीभूय एह्येहि त्वं मम प्रिये । त्वया विना कृतो देवि प्राणान्धर्तुं वरानने
न हि शक्नोम्यहं कांते जीवितं प्रियमेव च । तव स्नेहेन लुब्धोस्मि त्वां त्यक्त्वा नोत्सहे भृशम्
ब्राह्मण्युवाच- एवमुक्ता गतापश्यत्सुमुखं लज्जयान्विता । समालिंग्य ततो दैत्यः सतीं पद्मावतीं तदा
एकांतं तु समानीता सुभुक्ता इच्छया ततः । दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा
सुकलोवाच- मुष्कस्थानेस्य संकेतं नाविंदत वरानना । स्ववस्त्रं सा परिगृह्य शंकिता दुःखिता ह्यभूत्
सा सक्रोधा वचः प्राह गोभिलं दानवाधमम् । कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः
शप्तुकामा समुद्युक्ता दुःखेनाकुलितेक्षणा । वेपमाना तदा राजन्दुःखभारेण पीडिता
मम कांतच्छलेनैव त्वयागत्य दुरात्मवन् । नाशितं धर्ममेवाग्र्यं पातिव्रत्यमनुत्तमम्