रममाणा च सा तस्मिंस्तस्मिन्सरसि भामिनी । एवं विप्र तदा सा तु सुखेन परिवर्तयेत्
विष्णुरुवाच- गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च । दिव्येनापि विमानेन सर्वभोगपरिप्लुतः
याति चाकाशमार्गेण गोभिलो दैत्यसत्तमः । तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा
सर्वयोषिद्वरा सा हि उग्रसेनस्य वै प्रिया । रूपेणाप्रतिमा लोके सर्वांगेषु विराजते
रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया । किं वापि पार्वती देवी शची किं वा भविष्यति
यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा । अन्यापि ईदृशी नास्ति द्वितीया क्षितिमंडले
नक्षत्रेषु यथा चंद्रः संपूर्णो भाति शोभनः । गुणरूपकलाभिस्तु तथा भाति वरानना
पुष्करेषु यथा हंसस्तथेयं चारुहासिनी । अहो रूपमहोभाव अस्यास्तु परिदृश्यते
का कस्य शोभना बाला चारुवृत्तपयोधरा । व्यमृशद्गोभिलो दैत्यः पद्मावतीं वराननाम्
चिंतयित्वा क्षणं विप्र का कस्यापि भविष्यति । ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः
दयिता उग्रसेनस्य पतिव्रतपरायणा । आत्मबलेन तिष्ठंती दुष्प्राप्या पुरुषैरपि
उग्रसेनो महामूर्खः प्रेषिता येन वै वरा । पितुर्गेहमियं बाला स तु भाग्येन वर्जितः
अनया विना स जीवेच्च कथं कूटमतिः सदा । किं वा नपुंसको राजा एनां यो हि परित्यजेत्
तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि । इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि
कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत् । अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि
अद्यैव हि न संदेहो यतः कामो महाबलः । इति चिंतापरो भूत्वा गोभिलो मनसैक्षत
कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः । यादृशस्तूग्रसेनश्च सांगोपांगो महानृपः
गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया । यथावस्त्रो यथावेशो वयसा च तथा पुनः
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः । सर्वाभरणशोभांगो यादृशो माथुरेश्वरः
भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा । मायया परया युक्तो रूपलावण्यसंपदा
पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः । शिलातलस्थो दुष्टात्मा वीणादंडेन वीरकः
सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम् । तालमानक्रियोपेतं सप्तस्वरविभूषितम्
गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः । पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः
सखीमध्यगता सा तु पद्मावती वरानना । शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम्
कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम् । गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम्
सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा । अशोकच्छायामाश्रित्य विमले सुशिलातले
ददर्श भूपवेषेण गोभिलं दानवाधमम् । पुष्पमालांबरधरं दिव्यगंधानुलेपनम्
सर्वाभरणशोभांगं पद्मावती पतिव्रता । मथुरेशः समायातः कदा धर्मपरायणः
मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः । यावद्धि चिंतयेत्सा च तावत्पापेन तेन सा
समाहूता तुरीभूय एहि त्वं हि प्रिये मम । चकिताशंकितासाचकथंभर्त्तासमागतः