सत्यकेतुश्च राजेंद्रः सस्मार स पद्मावतीम् । स्वसुतां तां महाभागो माता तस्याः सुदुःखिता
स दूतान्प्रेषयामास वैदर्भो मथुरां प्रति । उग्रसेनं नृवीरेंद्रं सादरेण द्विजोत्तम
उग्रसेनं महाराजं स दूतो वाक्यमब्रवीत् । विदर्भाधिपतिर्वीरो भक्त्या स्नेहेन नंदयन्
आत्मनः कुशलं ब्रूते भवतां परिपृच्छति । सत्यकेतुर्महाराज त्वामेवं परिपृष्टवान्
दर्शनाय प्रेषयस्व सुतां पद्मावतीं मम । यदि त्वं मन्यसे नाथ प्रीतिस्नेहं हितस्य च
प्रेषयस्व महाभागां प्रियां प्रीतिकरां तव । औत्कण्ठ्येन महाराज स सोत्कंठेन वर्तते
समाकर्ण्य ततो वाक्यमुग्रसेनो नृपोत्तमः । प्रीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः
दाक्षिण्येन च विप्रेंद्र प्रेषयामास भूपतिः । पद्मावतीं प्रियां भार्यामुग्रसेनः प्रतापवान्
प्रेषितानेन राजेंद्र गता पद्मावती स्वकम् । पूर्वं गृहं सती सा तु महाहर्षेण संकुला
पितृपूर्वं कुटुंबं तु ददृशे चारुमंगला । पितुः पादौ ननामाथ शिरसा सत्यतत्परा
आगतायां महाराजा पद्मावत्यां द्विजोत्तम । हर्षेण महताविष्टो विदर्भाधिपतिर्नृपः
वर्द्धिता दानमानैश्च वस्त्रालंकारभूषणैः । पद्मावती सुखेनापि पितुर्गेहे प्रवर्तते
सखीभिः सहिता सा तु निःशंका परिवर्तते । रमते सा तदा तत्र यथापूर्वं तथैव च
गृहे वने तडागेषु प्रासादे च तथैव सा । पुनर्बालेव भूता सा निर्लज्जा संप्रवर्तते
निःशंका वर्तते विप्र सखीभिः सह सर्वदा । पतिव्रता महाभागा हर्षेण महतान्विता
सुखं तु पितृगेहस्य दुर्लभं श्वशुरे गृहे । एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति
अनेन मोहभावेन क्रीडालुब्धा वरानना । सखीभिः सहिता नित्यं वनेषूपवने तदा
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेऽष्टचत्वारिंशोऽध्यायः
ब्राह्मण्युवाच- एकदा तु महाभाग गता सा पर्वतोत्तमे । रमणीयं वनं दृष्ट्वा कदलीखंडमंडितम्
शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः । पूगीफलैर्मातुलिगैर्नारंगैश्चारुजंबुकैः
चंपकैः पाटलैः पुण्यैः पुष्पितैः कुटकैर्वटैः । अशोकबकुलोपेतं नानावृक्षैरलंकृतम्
पर्वतं पुण्यवंतं तं पुष्पितैश्च नगोत्तमैः । सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः
तडागं सर्वतोभद्रं पुण्यतोयेन पूरितम् । कमलैः पुष्पितैश्चान्यैः सुगंधैः कनकोत्पलैः
श्वेतोत्पलैर्विभासंतं रक्तोत्पलसुपुष्पितैः । नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुटैः
पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः । तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम्
कोकिलानां रुतैः पुण्यैः सुस्वरैः परिशोभितः । मधुराणां तथा शब्दैः सर्वत्र मधुरायते
षट्पदानां सुनादेन सर्वत्र परिशोभते । एवंविधं गिरिं रम्यं तदेव वनमुत्तमम्
तडागं सर्वतोभद्रं ददृशे नृपनंदिनी । वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा
समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम् । चापल्येन प्रभावेण स्त्रीभावेन च लीलया
पद्मावती सरस्तीरे सखीभिः सहिता तदा । जलक्रीडा समालीना हसते गायते पुनः