शालग्रामोद्भवं तीर्थं गल्लिकायां सुरेश्वरि । नर्मदायां शिवाख्यं तु मायायां विश्वरूपकम्
उत्पलाक्षं सहस्राक्षं जातं वै रैवते गिरौ । गंगायां पितृतीर्थं च विष्णुपादोद्भवं तथा
विपाशायां विपापा च पाटले पुंड्रवर्द्धनम् । नारायणं सुपार्श्वे तु त्रिकूटे विष्णुमंदिरम्
विपुले विपुलं नाम कल्याणं मलयाचले । कौरवं कोटितीर्थे च सुगंधं गंधमादने
कुब्जाम्रके त्रिसंध्यं तु गंगांद्वारे हरिप्रियम् । शैलं विंध्यप्रदेशे तु बदर्यां सारस्वतं स्मृतम्
कालिद्यां कालरूपं च सह्ये वै सायकं स्मृतम् । चांद्रं चंद्रप्रदेशे तु रमणं तीर्थनायकम्
यमुनायां मृगाख्यं तु करवीरे कुरूद्भवम् । विनायके पर्वते वै उमाख्यं तीर्थमेव च
आरोग्यं भास्करे देशे महाकाले महेश्वरम् । तीर्थं अभयदं नामामृताख्यं विंध्यकंधरे
मंडपे विश्वरूपं च स्वाहाख्यं ईश्वरे पुरे । वैगलेयं प्रचंडायां चांडिकंमरकंटके
सोमेश्वरं तथा तीर्थे प्रभासे पुष्करं तथा । देवमात्रं सरस्वत्यां पारावततटे स्थितम्
महालयं महापद्मे पयोष्ण्यां पिंगलेश्वरम् । सिंहिकायां तथा तीर्थं सौरवेरविसंज्ञकम्
कार्तिकं कृत्तिकाक्षेत्रे शांकरं शंकरे गिरौ । उत्पलाख्यं ततो दिव्यं सुभद्रा सिंधुसंगमे
गाणपत्यं ततश्चैव पर्वतो विष्णुसंज्ञके । जालंधरे ततः प्रोक्तं तीर्थं विष्णुमुखं च यत्
तारे वै तारकं प्रोक्तं पर्वते विष्णुसंज्ञके । देवदारुवने पौंड्रं पौष्कं काश्मीरमंडले
भौमं हिमं हिमाद्रौ च तुष्टिकं पौष्टिकं पुनः । कपालमोचनं तीर्थं जातं मायापुरे तथा
शंखोद्धारं ततश्चैव देवं वै शंखधारकम् । पिंडे वै पिंडनामानं सिद्धे वैखानसं भवेत्
अच्छोदे विष्णुकामं तु धर्मकामार्थमोक्षदम् । औषध्यं चोत्तरेकूले कुशद्वीपे कुशोदकम्
मन्मथं हेमकूटे तु कुमुदे सत्यवादनम् । वदंत्यावाश्वकं तीर्थं विंध्ये वै मातृकं स्मृतम्
चित्ते ब्रह्ममयं तीर्थं तीर्थानां पावनं स्मृतम् । एतेषां सर्वतीर्थानामुत्तमं शृणु सुंदरि
विष्णोर्नाममयं तीर्थं न भूतं न भविष्यति । ब्रह्महा हेमहारी वा बालहा गोघ्न एव च
मुच्यते नाममात्रेण प्रसादात्केशवस्य तु । कलौ द्वारवती रम्या धन्यो देवो जनार्दनः
ये पश्यंति नरा देवं मुक्तिस्तेषां सुनिश्चला । एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुम्
चिंतयामि महादेवि विद्वत्संस्थो जनार्दनम् । अष्टोत्तरं तु तीर्थानां शतमेतदुदाहृतम्
यो जपेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । एषु तीर्थेषु यः स्नात्वा पश्येन्नारायणं हरिम्
सर्वपापविनिर्मुक्तो याति विष्णोः सनातनम् । जगन्नाथं महातीर्थं लोकानां पावनं स्मृतम्
ये गच्छंति नरश्रेष्ठास्तेपि यांति परां गतिम् । शताष्टकं महापुण्यं श्रावयेत्पितृकर्मणि
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् । गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः
देवार्चनविधौ विद्वान्परं ब्रह्माधिगच्छति
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे जंबूद्वीपतीर्थवर्णनंनाम त्रयस्त्रिंशाधिकशततमोऽध्यायः
महादेव उवाच। वेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु सुंदरि । यत्र स्नात्वा विमुच्यंते यावदाभूतसंप्लवम्