ब्राह्मण्युवाच- माथुरे विषये रम्ये मथुरायां नृपोत्तमः । उग्रसेनेति विख्यातो यादवः परवीरहा
सर्वधर्मार्थतत्त्वज्ञो वेदज्ञः श्रुतवान्बली । दाता भोक्ता गुणग्राही सद्गुणान्वेत्ति भूपतिः
राज्यं चकार मेधावी प्रजा धर्मेण पालयेत् । एवं स च महातेजा उग्रसेनः प्रतापवान्
वैदर्भे विषये पुण्ये सत्यकेतुः प्रतापवान् । तस्य कन्या महाभागा पद्माक्षी कमलानना
नाम्ना पद्मावती नाम सत्यधर्मपरायणा । सा तु स्त्रीणां गुणैर्युक्ता द्वितीयेव समुद्रजा
वैदर्भी शुशुभे राजन्स्वगुणैः सत्यकारणैः । माथुर उग्रसेनस्तु उपयेमे सुलोचनाम्
तया सह महाभाग सुखं रेमे प्रतापवान् । अतिप्रीतो गुणैस्तस्यास्तया सह सुखीभवेत्
तस्याः स्नेहेन प्रीत्या च संमुग्धो माथुरेश्वरः । पद्मावती महाभागा तस्य प्राणप्रियाभवत्
तया विना न बुभुजे तया सह प्रक्रीडयेत् । तया विना न सेवेत परमं सुखमेव सः
एवं प्रीतिकरौ जातौ परस्परमनुत्तमौ । स्नेहवंतौ द्विजश्रेष्ठ सुखसंप्रीतिदायकौ
सत्यकेतुश्च राजेंद्रः सस्मार स पद्मावतीम् । स्वसुतां तां महाभागो माता तस्याः सुदुःखिता
स दूतान्प्रेषयामास वैदर्भो मथुरां प्रति । उग्रसेनं नृवीरेंद्रं सादरेण द्विजोत्तम
उग्रसेनं महाराजं स दूतो वाक्यमब्रवीत् । विदर्भाधिपतिर्वीरो भक्त्या स्नेहेन नंदयन्
आत्मनः कुशलं ब्रूते भवतां परिपृच्छति । सत्यकेतुर्महाराज त्वामेवं परिपृष्टवान्
दर्शनाय प्रेषयस्व सुतां पद्मावतीं मम । यदि त्वं मन्यसे नाथ प्रीतिस्नेहं हितस्य च
प्रेषयस्व महाभागां प्रियां प्रीतिकरां तव । औत्कण्ठ्येन महाराज स सोत्कंठेन वर्तते
समाकर्ण्य ततो वाक्यमुग्रसेनो नृपोत्तमः । प्रीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः
दाक्षिण्येन च विप्रेंद्र प्रेषयामास भूपतिः । पद्मावतीं प्रियां भार्यामुग्रसेनः प्रतापवान्
प्रेषितानेन राजेंद्र गता पद्मावती स्वकम् । पूर्वं गृहं सती सा तु महाहर्षेण संकुला
पितृपूर्वं कुटुंबं तु ददृशे चारुमंगला । पितुः पादौ ननामाथ शिरसा सत्यतत्परा
आगतायां महाराजा पद्मावत्यां द्विजोत्तम । हर्षेण महताविष्टो विदर्भाधिपतिर्नृपः
वर्द्धिता दानमानैश्च वस्त्रालंकारभूषणैः । पद्मावती सुखेनापि पितुर्गेहे प्रवर्तते
सखीभिः सहिता सा तु निःशंका परिवर्तते । रमते सा तदा तत्र यथापूर्वं तथैव च
गृहे वने तडागेषु प्रासादे च तथैव सा । पुनर्बालेव भूता सा निर्लज्जा संप्रवर्तते
निःशंका वर्तते विप्र सखीभिः सह सर्वदा । पतिव्रता महाभागा हर्षेण महतान्विता
सुखं तु पितृगेहस्य दुर्लभं श्वशुरे गृहे । एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति
अनेन मोहभावेन क्रीडालुब्धा वरानना । सखीभिः सहिता नित्यं वनेषूपवने तदा
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेऽष्टचत्वारिंशोऽध्यायः
ब्राह्मण्युवाच- एकदा तु महाभाग गता सा पर्वतोत्तमे । रमणीयं वनं दृष्ट्वा कदलीखंडमंडितम्
शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः । पूगीफलैर्मातुलिगैर्नारंगैश्चारुजंबुकैः