भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी । अहमेनां परित्यज्य व्रजामि गृहवासिनि
ब्राह्मण्युवाच- अद्य ज्ञातं त्वया कांत सुताया गुणदूषणम् । तव मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम्
तावद्विलाडयेत्पुत्रं यावत्स्यात्पंचवार्षिकः । शिक्षाबुद्ध्या सदा कांत पुनर्मोहेन पोषयेत्
स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः । गुणेषु योजयेत्कांत सद्विद्यासु च तं सुतम्
गुणशिक्षार्थंनिर्मोहः पिता भवति सर्वदा । पालने पोषणे कांत संमोहः परिजायते
सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने । काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत्
यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः । अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः
नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च । माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत्
गुरुश्च ताडयेच्छिष्यं ततः सिध्यंति नान्यथा । भार्यां च ताडयेत्कांत अमात्यं नृपतिस्तथा
हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने । शिक्षाबुद्ध्या प्रसिध्यंति ताडनात्पालनाद्विभो
त्वयेयं नाशिता नाथ सर्वदैव न संशयः । सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा
निरंकुशा कृता गेहे तेन नष्टा महामते । तावद्धि धारयेत्कन्यां गृहे कांतवचः शृणु
अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत् । पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती
उभाभ्यामपि तत्पापं पितृभ्यामपि विंदति । तस्मान्न धार्यते कन्या समर्था निजमंदिरे
यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत् । तत्रस्था साधयेत्कांतं सगुणं भक्तिपूर्वकम्
कुलस्य जायते कीर्तिः पिता सुखेन जीवति । तत्रस्था कुरुते पापं तत्पापं भुंजते पतिः
तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा । पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय
तस्मान्न धारयेत्कांत गेहे पुत्रीं सभर्तृकाम् । इत्यर्थे श्रूयते कांत इतिहासो भविष्यति
अष्टविंशतिके प्राप्ते युगे द्वापरके महान् । उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो
चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज
ब्राह्मण्युवाच- माथुरे विषये रम्ये मथुरायां नृपोत्तमः । उग्रसेनेति विख्यातो यादवः परवीरहा
सर्वधर्मार्थतत्त्वज्ञो वेदज्ञः श्रुतवान्बली । दाता भोक्ता गुणग्राही सद्गुणान्वेत्ति भूपतिः
राज्यं चकार मेधावी प्रजा धर्मेण पालयेत् । एवं स च महातेजा उग्रसेनः प्रतापवान्
वैदर्भे विषये पुण्ये सत्यकेतुः प्रतापवान् । तस्य कन्या महाभागा पद्माक्षी कमलानना
नाम्ना पद्मावती नाम सत्यधर्मपरायणा । सा तु स्त्रीणां गुणैर्युक्ता द्वितीयेव समुद्रजा
वैदर्भी शुशुभे राजन्स्वगुणैः सत्यकारणैः । माथुर उग्रसेनस्तु उपयेमे सुलोचनाम्
तया सह महाभाग सुखं रेमे प्रतापवान् । अतिप्रीतो गुणैस्तस्यास्तया सह सुखीभवेत्
तस्याः स्नेहेन प्रीत्या च संमुग्धो माथुरेश्वरः । पद्मावती महाभागा तस्य प्राणप्रियाभवत्
तया विना न बुभुजे तया सह प्रक्रीडयेत् । तया विना न सेवेत परमं सुखमेव सः
एवं प्रीतिकरौ जातौ परस्परमनुत्तमौ । स्नेहवंतौ द्विजश्रेष्ठ सुखसंप्रीतिदायकौ