तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः । तं प्रोवाच पिता एवं को भवान्वै भविष्यति
किं ते नाम कुलं गोत्रमाचारं वद सांप्रतम् । समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः
कौशिकस्यान्वये जातो वेदवेदांगपारगः । शिवशर्मेति मे नाम पितृमातृविवर्जितः
संति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः । एवं कुलं समाख्यातमाचारः कुलसंभवः
एवं सर्वं समाख्यातं पितरं शिवशर्मणा । शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते
पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा । पितृगेहे वसाम्येका तेन सार्धं महात्मना
नैव शुश्रूषितो भर्ता मया स पापया तदा । पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता
अंगसंवाहनं तस्य न कृतं हि मया कदा । रतिभावेन स्नेहेन वचनेन मया शुभे
क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया । पुंश्चलीनां प्रसंगेन तद्भावं हि गता शुभे
मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च । न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम्
एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम । स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः
न किंचिद्वक्ति मां सोपि क्षमते दुष्कृतं मम । वार्यमाणा कुटुंबेन अहमेवं सुपापिनी
तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः । पितामाता च मे सर्वे मम पापेन दुःखिताः
भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः । तं देशं ग्राममेनं च परित्यज्य गतस्ततः
गते भर्तरि मे तातः संजातश्चिंतयान्वितः । मम दुःखेन दुःखात्मा यथा रोगेण पीडितः
मम माता उवाचैनं भर्तारं दुःखपीडितम् । कस्माच्चिंतयसे कांत वद दुःखं ममाग्रतः
वसुदत्त उवाचैनां मातरं मम नंदने । सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे
इयं पापसमाचारा निर्घृणा पापचारिणी । अनया हि परित्यक्तः शिवशर्मा महामतिः
समस्तस्य कुटुंबस्य दाक्षिण्येन महामतिः । ममायं स द्विजः कांते सुदेवां नैव भाषते
वसते सौम्यभावेन नैव निंदति कुत्सति । सुदेवां पापसंचारां स वै पंडितबुद्धिमान्
भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी । अहमेनां परित्यज्य व्रजामि गृहवासिनि
ब्राह्मण्युवाच- अद्य ज्ञातं त्वया कांत सुताया गुणदूषणम् । तव मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम्
तावद्विलाडयेत्पुत्रं यावत्स्यात्पंचवार्षिकः । शिक्षाबुद्ध्या सदा कांत पुनर्मोहेन पोषयेत्
स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः । गुणेषु योजयेत्कांत सद्विद्यासु च तं सुतम्
गुणशिक्षार्थंनिर्मोहः पिता भवति सर्वदा । पालने पोषणे कांत संमोहः परिजायते
सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने । काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत्
यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः । अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः
नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च । माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत्
गुरुश्च ताडयेच्छिष्यं ततः सिध्यंति नान्यथा । भार्यां च ताडयेत्कांत अमात्यं नृपतिस्तथा
हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने । शिक्षाबुद्ध्या प्रसिध्यंति ताडनात्पालनाद्विभो