मामेवं याचमानास्ते विवाहार्थे वरानने । याचिताहं द्विजैः सर्वैर्न ददाति पिता मम
स्नेहाच्चैव महाभागे मुमोह स महामतिः । न दत्ताहं तदा तेन पित्रा चैव महात्मना
संप्राप्तं यौवनं बाले मयि भावसमन्वितम् । रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता
पितरं मे उवाचाथ कस्मात्कन्या न दीयते । त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने
देहि कन्यां महाभाग संप्राप्ता यौवनं त्वियम् । वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः
मातरं मे महाभागे श्रूयतां वचनं मम । महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि
यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु । तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः
मम प्राणप्रिया चैषा सुदेवा नात्र संशयः । एवमूचे मदर्थे स वसुदत्तः पिता मम
कौशिकस्य कुले जातः सर्वविद्याविशारदः । ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः
वेदाध्ययनसंपन्नं पठमानं हि सुस्वरम् । भिक्षार्थं द्वारमायांतं पितृमातृविवर्जितम्
तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः । तं प्रोवाच पिता एवं को भवान्वै भविष्यति
किं ते नाम कुलं गोत्रमाचारं वद सांप्रतम् । समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः
कौशिकस्यान्वये जातो वेदवेदांगपारगः । शिवशर्मेति मे नाम पितृमातृविवर्जितः
संति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः । एवं कुलं समाख्यातमाचारः कुलसंभवः
एवं सर्वं समाख्यातं पितरं शिवशर्मणा । शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते
पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा । पितृगेहे वसाम्येका तेन सार्धं महात्मना
नैव शुश्रूषितो भर्ता मया स पापया तदा । पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता
अंगसंवाहनं तस्य न कृतं हि मया कदा । रतिभावेन स्नेहेन वचनेन मया शुभे
क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया । पुंश्चलीनां प्रसंगेन तद्भावं हि गता शुभे
मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च । न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम्
एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम । स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः
न किंचिद्वक्ति मां सोपि क्षमते दुष्कृतं मम । वार्यमाणा कुटुंबेन अहमेवं सुपापिनी
तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः । पितामाता च मे सर्वे मम पापेन दुःखिताः
भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः । तं देशं ग्राममेनं च परित्यज्य गतस्ततः
गते भर्तरि मे तातः संजातश्चिंतयान्वितः । मम दुःखेन दुःखात्मा यथा रोगेण पीडितः
मम माता उवाचैनं भर्तारं दुःखपीडितम् । कस्माच्चिंतयसे कांत वद दुःखं ममाग्रतः
वसुदत्त उवाचैनां मातरं मम नंदने । सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे
इयं पापसमाचारा निर्घृणा पापचारिणी । अनया हि परित्यक्तः शिवशर्मा महामतिः
समस्तस्य कुटुंबस्य दाक्षिण्येन महामतिः । ममायं स द्विजः कांते सुदेवां नैव भाषते
वसते सौम्यभावेन नैव निंदति कुत्सति । सुदेवां पापसंचारां स वै पंडितबुद्धिमान्