अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा । रोदनं च कृतं तत्र गीतं गायति सुस्वरम्
तथा तमागतं विप्रो गीतविद्याधरं नृप । चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि
ज्ञात्वा तस्य तु वृत्तांतं मामेवं परिचालयेत् । पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः
एवं ज्ञात्वा महात्मानं गंधर्वाधममेव हि । चुकोप मुनिशार्दूलस्तं शशाप महामतिः
यस्माच्छूकररूपेण मामेवं परिचालयेः । तस्माद्व्रज महापाप पापयोनिं तु शौकरीम्
शप्तस्तेनापि विप्रेण गतो देवं पुरंदरम् । तमुवाच महात्मानं कंपमानो वरानने
शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया । तप एव हि कुर्वन्सन्दारुणं मुनिपुंगवः
तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया । शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम्
पशुयोनिं गतं शक्र मामेवं परिरक्षय । ज्ञात्वा तस्य स वृत्तांतं गीतविद्याधरस्य च
तेन सार्धंगतश्चेंद्रस्तं मुनिं पर्यभाषत । दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम
क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम् । इति संप्रार्थितो विप्रो महेंद्रेणाह हृष्टधीः
पुलस्त्य उवाच- वचनात्तव देवेश क्षंतव्यं च मयापि हि । भविष्यति महाराज मनुपुत्रो महाबलः
इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः । तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति
तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः । एतत्ते सर्ववृत्तांतं शूकरस्य निवेदितम्
आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि । मया च पातकं घोरं कृतं यत्पापया पुरा
सप्तचत्वारिंशोऽध्यायः सुकलोवाच- सुदेवा चारुसर्वांगी तामुवाचाथ सूकरीम् । पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम्
एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे । कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे
शूकर्युवाच- पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि । निहता खड्गबाणैश्च पतिता रणमूर्धनि
मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने । त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुंदरि
पुण्योदकेन शीतेन तव हस्तगतेन वै । अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम्
यथा विनाशं तेजोभिरंधकारः प्रयाति सः । तथा तवाभिषेकेण मम पापं गतं शुभे
प्रसादात्तव चार्वंगि लब्धं ज्ञानं पुरातनम् । पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे
श्रूयतामभिधास्यामि पूर्वं वृत्तांतमात्मनः । यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु
कलिंगाख्ये महादेशे श्रीपुरंनाम पत्तनम् । सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम्
वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः । ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः
वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी । धनधान्यसमाकीर्णः पुत्रपौत्रैरलंकृतः
तस्याहं तनया भद्रे सोदरैः स्वजनबांधवैः । अलंकारैस्तु शृंगारैर्भूषितास्मि वरानने
सुदेवानाम मे तातश्चकार स महामतिः । तस्याहं दयिता नित्यं पितुश्चापि महामते
रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी । रूपयौवनगर्वेण मत्ताहं चारुहासिनी
अहं कन्या सुरूपा वै सर्वालंकारशोभिता । मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः