लययुक्तेन भावेन मूर्च्छना सहितेन च । मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत
इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत् । गीतविद्याधर उवाच- आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम्
दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा । गीतेनानेन दिव्येन सर्वास्तुष्यंति देवताः
शंभुश्चापि समानीतो गीतध्वनिरतो द्विज । गीतं सर्वरसं प्रोक्तं गीतमानंददायकम्
शृंगाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः । शोभामायांति गीतेन वेदाश्चत्वार उत्तमाः
गीतेन देवताः सर्वास्तोषमायांति नान्यथा । तदेवं निन्दसे गीतं मामेवं परिचालयेः
अन्यायोऽयं महाभाग तवैव इह दृश्यते । पुलस्त्य उवाच- सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम्
शृणु त्वं मामकं वाक्यं मानं त्यज महामते । नाहं गीतं प्रकुत्सामि गीतं वंदामि नान्यथा
विद्याश्चतुर्दशैवैता एकीभावेन भावदाः । प्राणिनां सिद्धिमायांति मनसा निश्चलेन च
तपश्च तद्वन्मंत्राश्च सुसिद्ध्यंत्येकचिंतया । हृषीकाणां महावर्गश्चपलो मम संमतः
विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः । चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः
यत्र शब्दं न रूपं च युवती नैव तिष्ठति । मुनयस्तत्र गच्छंति तपःसिद्ध्यर्थमेव हि
अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः । न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः
अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे । गीतविधाधर उवाच- इंद्रियाणां बलं वर्गं जितं येन महात्मना
स जयी कथ्यते योगी स च वीरः ससाधकः । शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते
चलते नैव यो ध्यानात्स धीरस्तपसाधकः । भवांस्तु तेजसा हीन इंद्रियैर्विजितो यतः
स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे । वर्जयंति वनं सर्वे हीनवीर्या न संशयः
अयं साधारणो विप्र वनदेशो न संशयः । देवानां सर्वजीवानां यथा मम तथा तव
कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम् । यूयं गच्छंतु तिष्ठंतु यद्भव्यं तत्तु नान्यथा
एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा । समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम्
चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत् । क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः
तपश्चचार धर्मात्मा योगासनगतः सदा । कामं क्रोधं परित्यज्य मोहं लोभं तथैव च
सर्वेन्द्रियाणि संयम्य मनसा सममेव च । एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः
सुकलोवाच- गते तस्मिन्महाभागे पुलस्त्ये मुनिपुंगवे । कालादिष्टेन तेनापि गीतविद्याधरेण च
चिंतितं सुचिरं कालं न दृष्टोयं भयान्मम । क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः
ज्ञात्वा पद्मात्मजसुतमेकांतवनशालिनम् । गतो वराहरूपेण तस्याश्रममनुत्तमम्
आसनस्थं महात्मानं तेजोज्वालासमाविलम् । दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि
धर्षयेन्नियतं विप्रं तुंडाग्रेण कुचेष्टया । पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम्
मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः । नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः
पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते । एकदा तु तथायाते तेन रूपेण वै पुनः