पशुयोनिगता त्वं वै भाषसे मानुषं वचः । सौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम्
भर्तुश्चापि महाराज भटस्यास्य महात्मनः । कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः
आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद । एवमुक्त्वा महाभागा विरराम नृपप्रिया
शूकर्युवाच- यदि पृच्छसि मां भद्रे ममास्य च महात्मनः । तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम्
अयमेष महाप्राज्ञो गंधर्वो गीतपंडितः । रंगविद्याधरो नाम सर्वशास्त्रार्थकोविदः
मेरुं गिरिवरश्रेष्ठं चारुकंदरनिर्झरम् । तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः
तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा । विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो
तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा । स्वरतालसमोपेतं सुस्वरं चारुहासिनि
गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः । गायंतं तमुवाचेदं गीतविद्याधरं प्रति
भवद्गीतेन दिव्येन देवा मुह्यंति नान्यथा । सुस्वरेण सुपुण्येन तालमानेन पंडित
लययुक्तेन भावेन मूर्च्छना सहितेन च । मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत
इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत् । गीतविद्याधर उवाच- आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम्
दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा । गीतेनानेन दिव्येन सर्वास्तुष्यंति देवताः
शंभुश्चापि समानीतो गीतध्वनिरतो द्विज । गीतं सर्वरसं प्रोक्तं गीतमानंददायकम्
शृंगाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः । शोभामायांति गीतेन वेदाश्चत्वार उत्तमाः
गीतेन देवताः सर्वास्तोषमायांति नान्यथा । तदेवं निन्दसे गीतं मामेवं परिचालयेः
अन्यायोऽयं महाभाग तवैव इह दृश्यते । पुलस्त्य उवाच- सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम्
शृणु त्वं मामकं वाक्यं मानं त्यज महामते । नाहं गीतं प्रकुत्सामि गीतं वंदामि नान्यथा
विद्याश्चतुर्दशैवैता एकीभावेन भावदाः । प्राणिनां सिद्धिमायांति मनसा निश्चलेन च
तपश्च तद्वन्मंत्राश्च सुसिद्ध्यंत्येकचिंतया । हृषीकाणां महावर्गश्चपलो मम संमतः
विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः । चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः
यत्र शब्दं न रूपं च युवती नैव तिष्ठति । मुनयस्तत्र गच्छंति तपःसिद्ध्यर्थमेव हि
अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः । न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः
अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे । गीतविधाधर उवाच- इंद्रियाणां बलं वर्गं जितं येन महात्मना
स जयी कथ्यते योगी स च वीरः ससाधकः । शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते
चलते नैव यो ध्यानात्स धीरस्तपसाधकः । भवांस्तु तेजसा हीन इंद्रियैर्विजितो यतः
स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे । वर्जयंति वनं सर्वे हीनवीर्या न संशयः
अयं साधारणो विप्र वनदेशो न संशयः । देवानां सर्वजीवानां यथा मम तथा तव
कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम् । यूयं गच्छंतु तिष्ठंतु यद्भव्यं तत्तु नान्यथा
एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा । समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम्