कस्मादुपेक्षसे कांत तन्मे त्वं कारणं वद । तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम्
महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल । तस्मान्न घातयेन्नारीं प्रेषयेहं न कंचन
अस्या वधनिमित्तार्थे पापाद्बिभेमि सुंदरि । एवमुक्त्वा तदा राजा विरराम महीपतिः
लुब्धको झार्झरो नाम ददृशे स तु सूकरीम् । कुर्वंतीं कदनं तेषां दुःसहां सुभटैरपि
आविव्याध सुवेगेन बाणेन निशितेन हि । संलग्नेन तु बाणेन शोणितेन परिप्लुता
शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला । तुंडेनापि हतः संख्ये झार्झरः स तया पुनः
पतमानेन तेनापि झार्झरेण तदा हता । खड्गेन निशितेनापि पपात विदलीकृता
श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता । दुःखेन महताविष्टा जीवमाना महीतले
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचचत्वारिंशोऽध्यायः
षट्चत्वारिंशोऽध्यायः सुकलोवाच- श्वसंतीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम् । सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति
अभिषिच्य मुखं तस्याः शीतलेनोदकेन च । पुनः सर्वांगमेवापि दुःखितां रणशालिनीम्
पुण्येन शीततोयेन सा उवाचाभिषिंचतीम् । उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम्
सुखं भवतु ते देवि अभिषिक्ता त्वया यदि । संपर्काद्दर्शनात्तेद्य गतो मे पापसंचयः
तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम् । चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः
पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम् । स्वरव्यंजनसंपन्नं संस्कृतमुत्तमं मम
हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम् । तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत्
पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत् । पशुयोनिगता चेयं यथा वै मानुषो वदेत्
तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः । अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया
तामुवाच ततो राजा सुदेवां सुप्रियां तदा । पृच्छ चैनां शुभां कांते का चेयं तु भविष्यति
श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम् । का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु
पशुयोनिगता त्वं वै भाषसे मानुषं वचः । सौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम्
भर्तुश्चापि महाराज भटस्यास्य महात्मनः । कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः
आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद । एवमुक्त्वा महाभागा विरराम नृपप्रिया
शूकर्युवाच- यदि पृच्छसि मां भद्रे ममास्य च महात्मनः । तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम्
अयमेष महाप्राज्ञो गंधर्वो गीतपंडितः । रंगविद्याधरो नाम सर्वशास्त्रार्थकोविदः
मेरुं गिरिवरश्रेष्ठं चारुकंदरनिर्झरम् । तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः
तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा । विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो
तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा । स्वरतालसमोपेतं सुस्वरं चारुहासिनि
गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः । गायंतं तमुवाचेदं गीतविद्याधरं प्रति
भवद्गीतेन दिव्येन देवा मुह्यंति नान्यथा । सुस्वरेण सुपुण्येन तालमानेन पंडित