एवमेतौ सुसंभाष्य परस्परहितैषिणौ । युद्धाय निश्चितौ भूत्वा समालोकयतो रिपून्
कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम्
यथैव मेघः परिगर्जते दिवि प्रावृट्सुकालेषु तडित्प्रकाशैः । तथैव संगर्जति कांतया समं समाह्वयेद्राजवरं खुराग्रैः
तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तम् । ससार अश्वस्य जवेनयुक्तः ससम्मुखं तस्य नृवीरधीरः
चतुश्चत्वारिंशत्तमोऽध्यायः सुकलोवाच- स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तम् । चुकोप भूपतिः क्रूरं दुःसहं शूकरं प्रति
धनुरादाय वेगेन बाणं कालानलोपमम् । तस्याभिमुखमेवासौ हयेनाभिससार सः
स यदा नृपतिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणम् । परिपश्यति शूकरयूथपतिः प्रगतोभिमुखं रणभूमितले
निशितेन शरेण हतो हि यदा नृपतेर्हयपादतले प्रगतः । तमिहैव विलंघ्य च वेगमनाः प्रखरेण जवेन च कोलवरः
व्यथितस्तुरगः सकिरिःकिटिना न हि याति क्षितौ स हि विद्धगतिः । तुरगः पतितो भुवि तुंडहतो लघुस्यंदनमेव गतो नृपतिः
स हि गर्जति शूकरजातिरवैरथसंस्थितकोशल येन जवैः । गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः
परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम्
कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजः । पपात भूमौ च हतो यदा तु ववर्षिरे देववराः सुपुष्पैः
तस्योर्ध्वगः पुष्पचयः सुजातः संतानकानामिव सौरभश्च । सकुंकुमैश्चंदनवृष्टिमेव कुर्वंति देवाः परितुष्यमाणाः
विमृश्यमानः स हि तेन राज्ञा चतुर्भुजः सोपि बभूव राजन् । दिव्यांबरोभूषणदिव्यरूपः स्वतेजसा भाति दिवाकरो यथा
दिव्येन यानेन दिवं गतो यदा सुपूज्यमानः सुरराजदेवैः । गंधर्वराजः स बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे। चतुश्चत्वारिंशत्तमोऽध्यायः
पंचचत्वारिंशत्तमोऽध्यायः सुकलोवाच- अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे । शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः
चतुरश्च ततो डिंभान्कृत्वा स्थित्वा च शूकरी । कुटुंबेन समं कांतं हतं दृष्ट्वा महाहवे
भर्तुर्मे चिंतितं प्राप्तमृषिदेवैश्च पूजितः । गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा
अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति । तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिंतितम्
यदा जीवंति मे बालाश्चत्वारो वंशधारकाः । भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः
केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम् । इति चिंतापरा भूत्वा दृष्ट्वा पर्वतसंकटम्
तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते । तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिंतितम्
तानुवाच महाराज पुत्रान्प्रति सुमोहितान् । यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः
तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम् । संत्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम्
पितृवैरं करिष्यामि साधयिष्ये रणे रिपून् । गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकंदरम्
पितरं मातरं त्यक्त्वा यो याति हि स पापधीः । नरकं च प्रयात्येव कृमिकोटिसमाकुलम्
तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत । संयास्यामि महापापा त्रयो गच्छंतु मे सुताः
कनीयसस्त्रयस्त्वेव गता गिरिवनांतरम् । तौ जग्मतू रणभुवं तेषामेव सुपश्यताम्
तेजसा सुबलेनापि गर्जंतौ च पुनःपुनः । अथ ते लुब्धकाः शूराः संप्राप्ता वातरंहसः