यूयं गच्छत वै दूरं दुर्गं गिरिगुहामुखम् । सुखं जीवत मे वत्सा वर्जयित्वा सुलुब्धकान्
मया तत्रैव गंतव्यं यत्रैष हि गमिष्यति । भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति
एते पितृव्यकाः सर्वे भवतां त्राणकारकाः । दूरं प्रयात वै सर्वे मां विहाय सुपुत्रकाः
पुत्रा ऊचुः- अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकः । भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै
युवाभ्यां हि अकस्माद्वै इदमुक्तं भयंकरम् । तन्नो हि कारणं मातर्वद सत्यमिहैव हि
शूकर्युवाच-। अयं राजा महारौद्रः कालरूपः समागतः । क्रीडते मृगया लुब्धो मृगान्हत्वा बहून्वने
इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः । संहरिष्यति कालोऽयं दूरं यात सुपुत्रकाः
पुत्रा ऊचुः-। मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीः । महारौद्रं सुघोरं तु नरकं प्रतिपद्यते
मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्घृणः । मातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः
पूयं नरकमेतीह कृमिदुर्गंधसंकुलम् । मातुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च
एवं विषादः संजातस्तेषां धर्मार्थसंयुतः । व्यूहं कृत्वा स्थिताः सर्वे बलतेजः समाकुलाः
साहसोत्साहसंपन्नाः पश्यंति नृपनंदनम् । नदंतः पौरुषैर्युक्ताः क्रीडमाना वने तदा
त्रयश्चत्वारिंशत्तमोऽध्यायः 2.43 सुकलोवाच- एवं ते शूकराः सर्वे युद्धाय समुपस्थिताः । पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः
महावराहो राजेंद्र गिरिसानुं समाश्रितः । महता यूथभावेन व्यूहं कृत्वा प्रतिष्ठति
कपिलः स्थूलपीनांगो महादंष्ट्रो महामुखः । दुःसहः शूकरो राजन्गर्जते चातिभैरवम्
तानपश्यन्महाराजः शालतालवनाश्रयान् । तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान्
गृह्यतां शूर वाराहो विध्यतां बलदर्पितः । एवमाभाष्य तान्वीरो मनुपुत्रः प्रतापवान्
अथ ते लुब्धकाः सर्वे मृगया मदमोहिताः । संनद्धा दंशिताः सर्वे श्वभिः सार्द्धं प्रजग्मिरे
हर्षेण महताविष्टो राजराजो महाबलः । अश्वारूढः सुसैन्येन चतुरंगेण संयतः
गंगातीरं समायातो मेरौ गिरिवरोत्तमे । रत्नधातुसमाकीर्णे नानावृक्षैरलंकृते
सुकलोवाच- यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुंगोऽत्युच्चम् । गगनमेव संप्राप्तो नाना नगाचरितशोभो गिरिराजो भाति
योजनबहलविमल गंगाप्रवाह समुच्चरत्तीरवीचीतरंगभंगैर्मुक्ताफलसदृशैर्निर्मलांबुकणैः । सर्वत्र प्रक्षालित धवलतलशिलातलोगिरींद्र सुःश्रियायुक्तः
देवैश्चारणकिन्नरैः परिवृतो गंधर्वविद्याधरैः सिद्धैरप्सरसांगणैर्मुनिजनैर्नागेंद्र विद्याधरैः । श्रीखंडैर्बहुचंदनैस्ससरलैः शालैस्तमालैर्गिरी रुद्रा क्षैर्वरसिद्धिदायकघनैः कल्पद्रुमैः शोभते
नानाधातुविचित्रो वै नानारत्नविचित्रितैः । विमानैः कांचनैर्दंडैः कलत्रैरुपशोभते
नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते । दिव्यपुन्नागबकुलैः कदलीखंडमंडितैः
पुष्पकैश्चंपकैरद्रि पाःटलैः केतकैस्तथा । नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा
नानावर्णैः सुपुष्पैश्च नानावृक्षैरलंकृतः । दिव्यवृक्षैः समाकीर्णः स्फाटिकस्य शिलातलैः
योगियोगीन्द्र संसिद्धैः कंदरांतर्निवासिभिः । निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः
नदीप्रवाहसंह्रष्टैः संगमैरुपशोभते । ह्रदैश्च पल्वलैः कुंडैर्निर्मलोदकधारिभिः
गिरिराजो विभात्येकः सानुभिः सह संस्थितैः । शरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः