शूकर्युवाच- यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलंकृतः । मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबांधवैः
त्वयैवालंकृतो यूथो भवता परिशोभते । त्वां विनायं महाभाग कीदृग्यूथो भविष्यति
तवैव स्वबलेनापि गर्जमानाश्च शूकराः । विचरंति गिरौ कांत तनया मम बालकाः
कंदान्मूलान्सुभक्षंति निर्भयास्तव तेजसा । दुर्गेषु वनकुंजेषु ग्रामेषु नगरेषु च
न कुर्वंति भयं तीव्रं सिंहानामिह पर्वते । मनुष्याणां महाबाहो पालितास्तव तेजसा
त्वया त्यक्ता अमी सर्वे बालका मम दारकाः । दीनाश्चैवाकुलाश्चैव भविष्यंति विचेतनाः
नित्यमेव सुखं वर्त्म गत्वा पश्यंति बालकाः । पतिहीना यथा नारी शोभते नैव शोभना
अलंकृता यथा दिव्यैरलंकारैः सकांचनैः । परिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः
श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति सा । चंद्रहीना यथा रात्री पुत्रहीनं यथा कुलम्
दीपहीनं यथा गेहं नैव भाति कदाचन । त्वां विनायं तथा यूथो नैव शोभेत मानद
आचारेण विना मर्त्यो ज्ञानहीनो यतिर्यथा । मंत्रहीनो यथा राजा तथायं नैव शोभते
कैवर्तेन विना नौर्वा संपूर्णा परिसागरे । न भात्येवं यथा सार्थः सार्थवाहेन वै विना
सेनाध्यक्षेण च विना यथा सैन्यं न भाति च । त्वां विना वै तथा सैन्यं शूकराणां महामते
दीनो भविष्यति तथा वेदहीनो यथा द्विजः । मयि भारं कुटुंबस्य विनिवेश्य प्रगच्छसि
मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशी । त्वां विनाहं न शक्नोमि धर्तुं प्राणान्प्रियेश्वर
त्वयैव सहिता स्वर्गं भूमिं वाथ महामते । नरकं वापि भोक्ष्यामि सत्यंसत्यं वदाम्यहम्
त्वं वा पुत्रांस्तुपौत्रांस्तु गृहीत्वा यूथमुत्तमम् । आवां व्रजाव यूथेश दुर्गमेवं सुकंदरम्
जीवितव्यं परित्यज्य रणाय परिगम्यते । तत्र को दृश्यते लाभो मरणे वद सांप्रतम्
वाराह उवाच- वीराणां त्वं न जानासि सुधर्मं शृणु सांप्रतम् । युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम्
देहि मे योधनं संख्ये युद्धार्थ्यहं समागतः । परेण याचितं युद्धं न ददाति यदा नरः
कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणु वल्लभे । कुंभीपाके तु नरके वसेद्युगसहस्रकम्
क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः । तद्युद्धं दीयमानेन रणभूमिगतेन वै
निर्जितं तु परं तत्र यशःकीर्त्तिं प्रभुंजते । स वा हतो युध्यमानः पौरुषेणातिनिर्भयः
वीरलोकमवाप्नोति दिव्यान्भोगान्प्रभुंजते । यावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु
वीरलोके वसेत्तावद्देवाचारैर्महीयते । मनुपुत्रः समायात अयं वीरो न संशयः
संग्रामं याचमानस्तु युद्धं देयं मया ध्रुवम् । युद्धातिथिः समायातो विष्णुरूपः सनातनः
सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे । शूकर्युवाच- यदा युद्धं त्वया देयं राज्ञे चैव महात्मने
ततोऽहं पौरुषं कांत पश्यामि तव कीदृशम् । एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता
उवाच पुत्रका यूयं शृणुध्वं वचनं मम । युद्धातिथिः समायातो विष्णुरूपः सनातनः
मया तत्र प्रगंतव्यं यत्रायं हि गमिष्यति । यावत्तिष्ठति वै नाथो भवतां प्रतिपालकः