क्रीडते मृगयां कांते मृगान्संहरते बहून् । स मां दृष्ट्वा महाराज एष्यते नात्र संशयः
अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम् । ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति
हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरः । श्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः
प्रिये करिष्यते घातं ममाप्येवं न संशयः
शूकर्युवाच- यदायदा पश्यसि लुब्धकान्बहून्महावने कांत समायुधान्बहून् । एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः
त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः । दृष्ट्वा नृपेंद्रं पुरुषोत्तमोत्तमं करोषि किं कांत वदस्वकारणम्
तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम् । यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान्
सुलुब्धकाः पापकराः शठाः प्रिये कुर्वंति पापं गिरिदुर्गकंदरे । सदैव दुष्टा बहुपापचिंतका जाताश्च सर्वे परिपापिनां कुले
तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम् । दूरं गिरिं पर्वतकंदरं च व्रजामि कांते अपमृत्युभीतः
अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपः । युद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण
जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम् । तेनाहतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य
ममांगभूतेन पलेनमेदसा तृप्तिं परां यास्यति भूमिनाथः । तृप्ता भविष्यंति सुलोकदेवता अस्मादयंचागतो वज्रपाणिः
अस्यैव हस्तान्मरणं यदाभवेल्लाभश्च मे सुंदरि कीर्तिरुत्तमा । तस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य
नैवं भीतोस्मि क्षुब्धोस्मि गतोऽहं गिरिसानुषु । पापाद्भीतो गतः कांतेधर्मं दृष्ट्वा स्थितोह्यहम्
न जाने पातकं पूर्वमन्यजन्मनि चार्जितम् । येनाहं शौकरीं योनिं गतोऽहं पापसंचयात्
क्षालयिष्याम्यहं घोरं पूर्वपातकसंचयम् । बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः
पुत्रान्पौत्रांस्तु वाराहि कन्यां कुटुंबबालकम् । गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज
ममस्नेहं परित्यज्य हरिरेष समागतः । अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम्
दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम् । उद्घाटितकपाटं तु यास्यामि सुमहादिवम्
सुकलोवाच- तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः । उवाच तत्प्रिया सख्यः सीदमानांतरा तदा
शूकर्युवाच- यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलंकृतः । मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबांधवैः
त्वयैवालंकृतो यूथो भवता परिशोभते । त्वां विनायं महाभाग कीदृग्यूथो भविष्यति
तवैव स्वबलेनापि गर्जमानाश्च शूकराः । विचरंति गिरौ कांत तनया मम बालकाः
कंदान्मूलान्सुभक्षंति निर्भयास्तव तेजसा । दुर्गेषु वनकुंजेषु ग्रामेषु नगरेषु च
न कुर्वंति भयं तीव्रं सिंहानामिह पर्वते । मनुष्याणां महाबाहो पालितास्तव तेजसा
त्वया त्यक्ता अमी सर्वे बालका मम दारकाः । दीनाश्चैवाकुलाश्चैव भविष्यंति विचेतनाः
नित्यमेव सुखं वर्त्म गत्वा पश्यंति बालकाः । पतिहीना यथा नारी शोभते नैव शोभना
अलंकृता यथा दिव्यैरलंकारैः सकांचनैः । परिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः
श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति सा । चंद्रहीना यथा रात्री पुत्रहीनं यथा कुलम्
दीपहीनं यथा गेहं नैव भाति कदाचन । त्वां विनायं तथा यूथो नैव शोभेत मानद