कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु । शृंगारैर्भूषणैः सा तु शुशुभे सा यदा पतिः
पत्याविना भवत्येवं क्षीरं सर्पमुखे यथा । भर्तुरर्थे महाभागा सुव्रता चारुमंगला
गते भर्तरि या नारी शृंगारं कुरुते यदि । रूपं वर्णं च तत्सर्वं शवरूपेण जायते
वदंति भूतले लोकाः पुंश्चलीयं न संशयः । तस्माद्भर्तुर्वियुक्ता या नार्याः शृणुत भूतले
इच्छंत्या वै महासौख्यं भवितव्यं कदाचन । सुजायायाः परो धर्मो भर्ता शास्त्रेषु गीयते
तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल । एवं धर्मं विजानामि कथं भर्ता परित्यजेत्
इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः । सुदेवायाश्च चरितं सुपुण्यं पापनाशनम्
द्विचत्वारिंशत्तमोऽध्यायः सख्य ऊचुः- सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नः । त्वया प्रोक्तं महाभागे वद नः सत्यमेव च
सुकलोवाच- अयोध्यायां महाराजः स आसीद्धर्मकोविदः । मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः
इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः । तस्य भार्या सदा पुण्या पतिव्रतपरायणा
तया सार्द्धं यजेद्यज्ञं तीर्थानि विविधानि च । वेदराजस्य वीरस्य काशीशस्य महात्मनः
सुदेवा नाम वै कन्या सत्याचारपरायणा । उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः
सुदेवा चारुसर्वांगी सत्यव्रतपरायणा । तया सार्द्धं स वै राजा जनानां पुण्यनायकः
स रेमे नृपशार्दूलो नित्यं च प्रियया तया । एकदा तु महाराजस्तया सार्द्धं वनं ययौ
गंगारण्यं समासाद्य मृगयां क्रीडते सदा । सिंहान्हत्वा वराहांश्च गजांश्च महिषांस्तथा
क्रीडमानस्य तस्याग्रे वराहश्च समागतः । बहुशूकरयूथेन पुत्रपौत्रैरलंकृतः
एका च शूकरी तस्य प्रियापार्श्वे प्रतिष्ठिता । वराहैः शूकरैस्तस्य तमेव परिवारिता
दृष्ट्वा च राजराजेंद्रं दुर्जयं मृगयारतम् । पर्वताधारमाश्रित्य भार्यया सह शूकरः
तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरूञ्छिशून् । ज्ञात्वा तेषां महाराज मृगाणां कदनं महत्
तानुवाच सुतान्पौत्रान्भार्यां तां च स शूकरः । कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः
क्रीडते मृगयां कांते मृगान्संहरते बहून् । स मां दृष्ट्वा महाराज एष्यते नात्र संशयः
अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम् । ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति
हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरः । श्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः
प्रिये करिष्यते घातं ममाप्येवं न संशयः
शूकर्युवाच- यदायदा पश्यसि लुब्धकान्बहून्महावने कांत समायुधान्बहून् । एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः
त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः । दृष्ट्वा नृपेंद्रं पुरुषोत्तमोत्तमं करोषि किं कांत वदस्वकारणम्
तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम् । यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान्
सुलुब्धकाः पापकराः शठाः प्रिये कुर्वंति पापं गिरिदुर्गकंदरे । सदैव दुष्टा बहुपापचिंतका जाताश्च सर्वे परिपापिनां कुले
तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम् । दूरं गिरिं पर्वतकंदरं च व्रजामि कांते अपमृत्युभीतः
अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपः । युद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण