पिबस्व पानं भुंक्ष्व त्वं स्वप्रदत्तं हि पूर्वकम् । कस्य भर्ता सुताः कस्य कस्य स्वजनबांधवाः
कः कस्य नास्ति संसारे संबंधः केन चैव हि । भक्ष्यते भुज्यते बाले संसारस्य हि तत्फलम्
मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम् । पीयते भुज्यते बाले एतत्संसारतः फलम्
सुकलोवाच- भवतीभिः प्रयुक्तं यत्तन्न स्याद्वेदसंमतम् । यातु भर्तुः पृथग्भूता तिष्ठत्येका सदैव हि
पापभूता भवेन्नारी तां न मन्यंति सज्जनाः । भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा
संबंधः पुण्यसंसर्गाज्जायते नात्र संशयः । नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते
तमेवावाहयेन्नित्यं वाचा कायेन कर्मभिः । मनसा पूजयेन्नित्यं भावसत्येन तत्परा
भर्तुः पार्श्वं महातीर्थं दक्षिणांगं सदैव हि । तमाश्रित्य यदा नारी गृहस्था परिवर्त्तयेत्
यजते दानपुण्यैश्च तस्य दानस्य यत्फलम् । वाराणस्यां च गंगायां यत्फलं न च पुष्करे
द्वारकायां न चावन्त्यां केदारे शशिभूषणे । लभते नैव सा नारी यजमाना सदा किल
तादृशं फलमेवं सा न प्राप्नोति कदा सखि । सुमुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम्
वस्त्रालंकारसौभाग्यं रूपं तेजः फलं सदा । यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनी
भर्तुः प्रसादात्सर्वं च लभते नात्र संशयः । विद्यमाने यदा कांते अन्यं धर्मं करोति या
निष्फलं जायते तस्याः पुंश्चली परिकथ्यते । नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम्
एकस्यापि हि भर्तुश्च तस्यार्थे भूमिमंडले । सुपुत्रा सुयशा नारी परिकथ्येत वै सदा
तुष्टे भर्तरि संसारे दृश्या नारी न संशयः । पतिहीना भवेन्नारी भवेत्सा भूमिमंडले
कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि । सुदौर्भाग्यं महद्दुःखं संसारे परिभुज्यते
पापभागा भवेत्सा च दुःखाचारा सदैव हि । तुष्टे भर्तरि तस्यास्तु तुष्टाः सर्वाश्च देवताः
तुष्टे भर्तरि तुष्यंति ऋषयो देवमानवाः । भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह
भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनंदन । शृंगारं भूषणं रूपं वर्णं सौगंधमेव च
कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु । शृंगारैर्भूषणैः सा तु शुशुभे सा यदा पतिः
पत्याविना भवत्येवं क्षीरं सर्पमुखे यथा । भर्तुरर्थे महाभागा सुव्रता चारुमंगला
गते भर्तरि या नारी शृंगारं कुरुते यदि । रूपं वर्णं च तत्सर्वं शवरूपेण जायते
वदंति भूतले लोकाः पुंश्चलीयं न संशयः । तस्माद्भर्तुर्वियुक्ता या नार्याः शृणुत भूतले
इच्छंत्या वै महासौख्यं भवितव्यं कदाचन । सुजायायाः परो धर्मो भर्ता शास्त्रेषु गीयते
तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल । एवं धर्मं विजानामि कथं भर्ता परित्यजेत्
इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः । सुदेवायाश्च चरितं सुपुण्यं पापनाशनम्
द्विचत्वारिंशत्तमोऽध्यायः सख्य ऊचुः- सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नः । त्वया प्रोक्तं महाभागे वद नः सत्यमेव च
सुकलोवाच- अयोध्यायां महाराजः स आसीद्धर्मकोविदः । मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः
इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः । तस्य भार्या सदा पुण्या पतिव्रतपरायणा