कथयंतु महात्मानं यदि दृष्टो महामतिः । तस्यास्तद्भाषितं श्रुत्वा तामूचुस्ते महामतिम्
धर्मयात्राप्रसंगेन नाथस्ते कृकलः शुभे । तीर्थयात्रां चकारासौ कस्माच्छोचसि सुव्रते
साधयित्वा महातीर्थं पुनरेष्यति शोभने । एवमाश्वासिता सा च पुरुषैराप्तकारिभिः
पुनर्गेहं गता राजन्सुकला चारुभाषिणी । रुरोद करुणं दुःखं सुकलापि परायणा
यावदायाति मे भर्त्ता भूमौ स्वप्स्यामि संस्तरे । घृतं तैलं न भोक्ष्येऽहं दधिक्षीरं तथैव च
लवणं च परित्यक्तं तथा तांबूलमेव च । मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा
एकाहारा निराहारा तावत्स्थास्ये न संशयः । यावच्चागमनं भर्तुः पुनरेव भविष्यति
एवं दुःखान्विता भूत्वा एकवेणीधरा पुनः । एककंचुकसंवीता मलिना च बभूव सा
मलिनेनापि वस्त्रेण एकेनैव स्थिता पुनः । हाहाकारं प्रमुंचंती निःश्वसंती सुदुःखिता
वियोगानलसंदग्धा कृष्णांगी मलधारिणी । एवं दुःखसमाचारा सुकृशा विह्वला तदा
रोदमाना दिवारात्रौ निद्रा लेभे न वै निशि । क्षुधां न विंदते राजन्दुःखेन विदलीकृता
अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा । सुकले चारुसर्वांगि कस्माद्रोदिषि संप्रति
ततस्त्वं कारणं ब्रूहि दुःखस्यास्य वरानने । सुकलोवाच- स मां त्यक्त्वा गतो भर्ता धर्मार्थं धर्मतत्परः
तीर्थयात्राप्रसंगेन अटते मेदिनीं ततः । मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम्
अहं साध्वी समाचारा सदा पुण्या पतिव्रता । मां त्यक्त्वा स गतो भर्ता तीर्थ साधनतत्परः
तेनाहं दुःखिता सख्यो वियोगेनाति पीडिता । जीवनाशो वरं श्रेष्ठो वरं वै विषभक्षणम्
वरमग्निप्रवेशश्च वरं कायविनाशनम् । नारीं प्रियां परित्यज्य भर्ता याति सुनिष्ठुरः
भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि । वियोगं न समर्थाहं सहितुं नित्यदारुणम्
तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः । सख्य ऊचुः- तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः
वृथा शोषयसे कायं वृथाशोकं करोषि वै । वृथा त्वं तप्यसे बाले वृथा भोगान्परित्यजेः
पिबस्व पानं भुंक्ष्व त्वं स्वप्रदत्तं हि पूर्वकम् । कस्य भर्ता सुताः कस्य कस्य स्वजनबांधवाः
कः कस्य नास्ति संसारे संबंधः केन चैव हि । भक्ष्यते भुज्यते बाले संसारस्य हि तत्फलम्
मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम् । पीयते भुज्यते बाले एतत्संसारतः फलम्
सुकलोवाच- भवतीभिः प्रयुक्तं यत्तन्न स्याद्वेदसंमतम् । यातु भर्तुः पृथग्भूता तिष्ठत्येका सदैव हि
पापभूता भवेन्नारी तां न मन्यंति सज्जनाः । भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा
संबंधः पुण्यसंसर्गाज्जायते नात्र संशयः । नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते
तमेवावाहयेन्नित्यं वाचा कायेन कर्मभिः । मनसा पूजयेन्नित्यं भावसत्येन तत्परा
भर्तुः पार्श्वं महातीर्थं दक्षिणांगं सदैव हि । तमाश्रित्य यदा नारी गृहस्था परिवर्त्तयेत्
यजते दानपुण्यैश्च तस्य दानस्य यत्फलम् । वाराणस्यां च गंगायां यत्फलं न च पुष्करे
द्वारकायां न चावन्त्यां केदारे शशिभूषणे । लभते नैव सा नारी यजमाना सदा किल