क्षीरार्णवः पयो दत्ते हंसाय न बकाय किम् । दत्तात्रेय उवाच। इति तस्य वचः श्रुत्वा दयार्द्रीकृतमानसा 6.127.
धर्मदाने मतिं कृत्वा जगौ कांचनमालिनी । करिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः
प्रतिज्ञां तु दृढां कृत्वा यतिष्ये तव मुक्तये । बहवो हि कृता माघा वर्षे वर्षे यथाविधि
श्रद्धापूर्वं मया भद्र ब्रह्मक्षेत्रे सितासिते । तां वदामि तु संख्यातिं तस्य धर्मस्य राक्षस
गूढो धर्मो हि कर्तव्य इत्यूचुर्विबुधा जनाः । आर्ते दानं प्रशंसंति मुनयो वेदवादिनः
सागरे वर्षतो भद्र किं मेघस्य फलं भवेत् । अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलम्
तत्तु दास्यामि ते मित्र सद्यः पापविनाशनम् । निष्पीड्याथ ततो वस्त्रं जलं कृत्वा करांबुजे
ददौ सा माघजं पुण्यं तस्मै वृद्धाय रक्षसे । शृणु राजन्विचित्रं हि प्रभावं माघधर्मजम्
तदैवं प्राप्य तत्पुण्यं विमुक्ता राक्षसी तनुः । संभूतो देवताकारस्तेजो भास्करविग्रहः
देवयानं समारूढः सहर्षोत्फुल्ललोचनः । द्योतमानस्तदा व्योम्नि भासयन्प्रभया दिशः
दिव्यरूपधरो रेजे द्वितीय इव भास्करः । ततोऽभिनंदयामास सतां कांचनमालिनीम्
भद्रे वेत्तीश्वरो देवः कर्मणां यः फलप्रदः । तत्त्वयोपकृतं सर्वं यत्र मे नास्ति निष्कृतिः
इदानीमपि कारुण्यात्प्रसीदानुग्रहं कुरु । शिक्षां विधेहि मे देवि सर्वनीतिमयीं शुभाम्
सर्वधर्मकरीं नूनं न कुर्वे पातकं यथा । तां श्रुत्वा त्वदनुज्ञातः पश्चाद्यामि सुरालयम्
दत्तात्रेय उवाच। एतन्निशम्य तेनोक्तं प्रियं धर्ममयं वचः । अतिप्रीत्याब्रवीद्धर्मं राजन्कांचनमालिनी
धर्मं भजस्व सततं त्यज भूतहिंसां सेवस्व साधुपुरुषान्जहि कामशत्रुम् । अन्यस्य दोषगुणकीर्तनमाशु हित्वा सत्यं वदार्चय हरिं व्रज देवलोकम्
देहेऽस्थिमांसरुधिरे स्वमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुंच । पश्यानिशं जगदिदं क्षणभंगुरं हि वैराग्यभावरसिको भव योगनिष्ठः
प्रीत्या मया निगदितं तव धर्ममार्गं चित्तो निधेहि सकलं भवशीलयुक्तः । संत्यज्य राक्षसतनुं धृतदेवदेहो ज्योतिर्मयो व्रज यथासुखमाशु नाकम्
श्रुत्वाधर्मं ततो हृष्टः संतुष्टो राक्षसोऽब्रवीत् । भवप्रमुदिता नित्यं सर्वदा शिवमस्तु ते
आचन्द्रार्कं रमस्व त्वं कैलासे शिवसन्निधौ । उमयाऽखंडितं प्रेम तवास्तु वरवर्णिनि
धर्मनिष्ठा तपोनिष्ठा मातस्त्वं भव सर्वदा । मास्तु लोभः शरीरे ते आपन्नार्ति सदा हर
इत्युक्त्वा तु प्रणम्याथ सतां कांचनमालिनीम् । जगाम राक्षसः स्वर्गं गंधर्वैर्बहुभिः स्तुतः
देवकन्यास्तदागत्य ववर्षुः पुष्पवृष्टिभिः । तस्याः कांचनमालिन्या मूर्ध्नि हर्षसमाकुलाः
तामालिंग्य ततः प्रोचुः कन्यकास्तु प्रियं वचः । कृतं भद्रे त्वया चित्रं राक्षसस्य विमोक्षणम्
दुष्टस्यास्य भयात्कश्चिद्विशत्यस्मिन्न कानने । अधुना निर्भया ह्यत्र विचरामो यथासुखम्
श्रुत्वा तद्वचनं राजंस्तासां कांचनमालिनी । हृष्टा तेनैव दानेन कृतकृत्या तदा सती
तं राक्षसं कांचनमालिनीवरा गन्धर्वकन्या परिमोच्य सत्वरम् । क्रीडंत्यमूभिः प्रययौ हरालयं प्रीत्या सपूर्णा च परोपकारया
संवादमेनं वरकन्यकेरितं भक्त्या परं यः शृणुयाच्च मानवः । न बाध्यते जातु सदा स राक्षसैर्धर्मे मतिस्तस्य भृशं हि जायते
पार्वत्युवाच। द्वीपेऽस्मिन्यानि तीर्थानि तानि मे वद सुव्रत । द्वीपानां द्वीपराजोऽयं सर्वदा भुवि निर्मितः । संख्यया त्वं वद स्वामिन्कृपां कृत्वा ममोपरि
महादेव उवाच। सर्वगः सर्वभूतेषु द्रष्टव्यः सर्वतो भुवि । सप्तलोकेषु यत्किंचिद्दृश्यते सचराचरम्