उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम् । शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च
आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः । जघान पृथिवीं गत्वा तालजंघान्सहैहयान्
सशकान् पारदांश्चैव जघान स महातपाः । नारद उवाच- माहात्म्यं सगरस्याथ वद शंकर विस्तरात्
महादेव उवाच- सूर्यवंशी महाराजो विख्यातः स महाबली । गरस्य व्यसने तात हृतं राज्यमभूत्किल
हैहयैस्तालजंघाद्यैः शकैः सार्द्धं च नारद । यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा
एते पंचगणा ब्रह्मन्हैहयार्थे पराक्रमान् । हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ
पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत् । तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता
सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया । सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह
और्वस्तां वारयित्वा च गरपत्नीं तु नारद । न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम्
निवेदिते ततो बाले मरणात्सा न्यवर्त्तत । ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे
जातकर्मादियोगश्च और्वेण च तथा कृतः । उपवीतादिकं सर्वं जातं तत्र महामुनेः
तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः । अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत्
आग्नेयं तं महाभाग अमरैरपि दुःसहम् । स तेनासुबलेनाजौ बलेन च समन्वितः
हैहयान्वै जघानाशु संक्रुद्धः स्वबलेन च । आजहार च लोकेषु स च कीर्तिमवाप सः
ततः शकाः सयवनाः कांबोजाः पल्लवास्तथा । हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः
वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः । सगरं वारयामास तेषां दत्त्वाऽभयं नृपः
सगरः स्वां प्रतिज्ञांतु गुरोर्वाक्यं निशम्य च । धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह
अर्द्धंशकनांशिरसो मुंडं कृत्वा विसर्जयत् । यवनानां शिरः सर्वं कांबोजानां तथैव च
पारदा मुंडकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः । एवं विजित्य सर्वान्वै कृतवान्धर्मसंग्रहम्
सर्वधर्मजयी राजा विजित्येमां वसुंधराम् । आशु संस्कारयामास वाजिमेधाय पार्थिवः
तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे । वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः
स तं देशं तदा पुत्रैः खानयामास सर्वतः । नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे
तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः । तमादिपुरुषं देवं कपिलं जगतां प्रभुम्
तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः । दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः
हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः । शूरः पंचजनश्चैव तस्य वंशकरा द्विज
प्रादाच्च तस्मै भगवान्हरिः पंचवरान्स्वयम् । वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः
सागरत्वं च लेभेथ कर्मणा तेन तस्य वै । तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् । आजहाराश्वमेधानां शतं स च महायशाः
महादेव उवाच-। गांगं वक्ष्यामि माहात्म्यं यथोक्तं मुनिसत्तम । यस्य श्रवणमात्रेण अघं नश्यति तत्क्षणात्
गंगागंगेति योब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
चरणाब्जसमुद्भूता गंगा नामेति विश्रुता । पापानां स्थूलराशीनां नाशिनी चेति नारद