वाहनानि विचित्राणि यानान्येव महामते । नानागंधान्सकर्पूरं यमपंथ सुखप्रदे
उपानहौ प्रदातव्ये यदीच्छेद्विपुलं सुखम् । एतैर्दानैर्महाराज यमपंथं सुखेन वै
प्रयाति मानवो राजन्यमदूतैरलंकृतम्
एकचत्वारिंशोऽध्यायः 2.41 वेन उवाच- पुत्रो भार्या कथं तीर्थं पितामाता कथं वद । गुरुश्चैव कथं तीर्थं तन्मे विस्तरतो वद
श्रीविष्णुरुवाच- अस्ति वाराणसी रम्या गंगायुक्ता महापुरी । तस्यां वसति वैश्यैकः कृकलो नाम नामतः
तस्य भार्या महासाध्वी पतिव्रतपरायणा । धर्माचारपरा नित्यं सा वै पतिपरायणा
सुकला नाम पुण्यांगी सुपुत्रा चारुमंगला । सत्यंवदा सदा शुद्धा प्रियाकारा प्रियप्रिया
एवंगुणैः समायुक्ता सुभगा चारुकारिणी । स वैश्य उत्तमो नाना धर्मज्ञो ज्ञानवान्गुणी
पुराणे श्रौतधर्मे च सदा श्रवणतत्परः । तीर्थयात्राप्रसंगेन बहुपुण्यप्रदायकम्
श्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमंगलाम् । ब्राह्मणानां प्रसंगेन सार्थवाहेन तेन च
प्रस्थितो धर्ममार्गं तु तमुवाच पतिव्रता । पतिस्नेहेन संमुग्धा भर्तारं वाक्यमब्रवीत्
सुकलोवाच- अहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय । पतिमार्गं प्रतीक्ष्याहं पतिदेवं यजाम्यहम्
कदा नैव मया त्याज्यं सामीप्यं ते द्विजोत्तम । तवच्छायां समाश्रित्य करिष्ये धर्ममुत्तमम्
पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम् । पुण्यस्त्री कथ्यते लोके या स्यात्पतिपरायणा
युवतीनां पृथक्तीर्थं विना भर्तुर्न शोभते । सुखदं नास्ति वै लोके स्वर्गमोक्षप्रदायकम्
सव्यं पादं च भर्तुश्च प्रयागं विद्धि सत्तम । वामं च पुष्करं तस्य या नारी परिकल्पयेत्
तस्य पादोदकस्नानात्तत्पुण्यं परि जायते । प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः
सर्वतीर्थमयो भर्ता सर्वपुण्यमयः पतिः । मखानां यजनात्पुण्यं यद्वै भवति दीक्षिते
तत्फलं समवाप्नोति सेवया भर्तुरेव हि । गयादीनां सुतीर्थानां यात्रां कृत्वा हि यद्भवेत्
तत्फलं समवाप्नोति भर्तुः शुश्रूषणादपि । समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु
नास्त्यासां हि पृथग्धर्मः पतिशुश्रूषणं विना । तस्मात्कांतसहायं ते कुर्वाणा सुखदायिनी
तवच्छायां समाश्रित्य आगमिष्यामि नान्यथा । विष्णुरुवाच- रूपं शीलं गुणं भक्तिं समालोक्य वयस्तथा
सौकुमार्यं विचार्यैवं कृकलः स पुनःपुनः । यद्येवं हि नयिष्यामि दुर्गमार्गं सुदुःखदम्
रूपनाशो भवेच्चास्याः शीतातपविलोडनात् । पद्मगर्भप्रतीकाशमस्याश्चांगं प्रवर्णकम्
झंझावातेन शीतेन कृष्णवर्णं भविष्यति । पंथाः कर्कश सुग्रावा पादौचास्याः सुकोमलौ
एष्यते वेदनां तीव्रामथो गंतुं न च क्षमा । क्षुत्तृष्णाभिपरीतांगी कीदृशीयं भविष्यति
वामांगी मम च स्थानं सुखस्थानं वरानना । मम प्राणप्रिया नित्यं नित्यं धर्मस्य चाश्रयः
नाशमेति यदा बाला मम नाशो भवेदिह । इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी
न नयिष्ये वनं तीर्थमेकश्चैवाप्यहं व्रजे । चिंतयित्वा क्षणं नूनं कृकलेन महात्मना
तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम । पुनरूचे महाभागा भर्त्तारं प्रस्थितं तदा