चोराय च न दातव्यं स यद्यत्रिसमो भवेत् । अतृप्ताय न दातव्यं शावं तु परिवर्जयेत्
अतिस्तब्धाय नो देयं शठाय च विशेषतः । वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः
श्राद्धे दाने च राजेंद्र नैव युक्तः कदा भवेत् । अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकम्
कालतीर्थसुपात्राणां श्रद्धा योगात्प्रजायते । नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम्
नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृप । श्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेत्
पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तम । एवंविधस्य दानस्य विधियुक्तस्य यत्फलम्
अनंतं तदवाप्नोति मत्प्रसादात्सुखी भवेत्
वेन उवाच- नित्यदानफलं देव त्वत्तः पूर्वं मया श्रुतम् । नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम्
तत्फलं मे समाचक्ष्व त्वत्प्रसादात्प्रयत्नतः । महातृप्तिं न गच्छामि श्रोतुं श्रद्धा प्रवर्तते
विष्णुरुवाच- नैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम । महापर्वणि संप्राप्ते येन दानानि श्रद्धया
सत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणु । गजं रथं प्रदत्ते यो ह्यश्वं चापि नृपोत्तम
स च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमः । जायते हि महाराज मत्प्रसादान्न संशयः
राजा भवति धर्मात्मा ज्ञानवान्बलवान्सुधीः । अजेयः सर्वभूतानां महातेजाः प्रजायते
महापर्वणि संप्राप्ते भूमिदानं ददाति यः । गोदानं वा महाराज सर्वभोगपतिर्भवेत्
ब्राह्मणाय सुपुण्याय दानं दद्यात्प्रयत्नतः । महादानानि यो दद्यात्तीर्थे पर्वणि पात्रवित्
तेषां चिह्नं प्रवक्ष्यामि भूपतित्वं प्रजायते । तीर्थे पर्वणि संप्राप्ते गुप्तदानं ददाति यः
निधीनामाशुसंप्राप्तिरक्षरा परिजायते । महापर्वणि संप्राप्ते तीर्थेषु ब्राह्मणाय च
सुचैलं च महादानं कांचनेन समन्वितम् । पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते
जायंते बहवः पुत्राः सुगुणा वेदपारगाः । आयुष्मंतः प्रजावंतो यशः पुण्यसमन्विताः
विपुलाश्चैव जायंते स्फीता लक्ष्मीर्महामते । सौख्यं च लभते पुण्यं धर्मवान्परिजायते
महापर्वणि संप्राप्ते तीर्थे गत्वा प्रयत्नतः । कपिलां कांचनीं दद्याद्ब्राह्मणाय महात्मने
तस्य पुण्यं प्रवक्ष्यामि दानस्य च महामते । कपिलादो महाराज सर्वसौख्यान्प्रभुंजति
यावद्ब्रह्मा प्रजीवेत्स तावत्तिष्ठति तत्र सः । महापर्वणि संप्राप्ते अलंकृत्य च गां तदा
कांचनेनापि संयुक्तां वस्त्रालंकारभूषणैः । तस्य दानस्य राजेंद्र फलभोगं वदाम्यहम्
विपुला जायते लक्ष्मीर्दानभोगसमाकुला । सर्वविद्यापतिर्भूत्वा विष्णुभक्तो भवेत्किल
विष्णुलोके वसेन्मर्त्यो यावत्तिष्ठति मेदिनी । तीर्थं गत्वा तु यो दद्याद्ब्राह्मणाय विभूषणम्
भुक्त्वा तु विपुलान्भोगानिन्द्रेण क्रीडते सह । महापर्वणि संप्राप्ते वस्त्रं च द्विजपुंगवे
दत्त्वान्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः । मोदते स तु वैकुंठे विष्णुतुल्यपराक्रमः
सवस्त्रं कांचनं दत्त्वा द्विजाय परिशांतये । स्वेच्छया अग्निसदृशो वैकुंठे स वसेत्सुखी
सुवर्णस्य सुकुंभं च घृतेन परिपूरयेत् । पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलंकृतम्