यज्ञभूमिश्च यज्ञश्च अग्निहोत्रे यथा स्थितः । श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः
होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च । गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम्
सोमपायी भवेद्यत्र तीर्थं तत्र प्रतिष्ठितम् । आरामो यत्र वै पुण्यो अश्वत्थो यत्र तिष्ठति
ब्रह्मवृक्षो भवेद्यत्र वटवृक्षस्तथैव च । अन्ये च वन्यसंस्थाने तत्र तीर्थं प्रतिष्ठितम्
एते तीर्थाः समाख्याताः पितामाता तथैव च । पुराणं पठ्यते यत्र गुरुर्यत्र स्वयं स्थितः
सुभार्या तिष्ठते यत्र तत्र तीर्थं न संशयः । सुपुत्रस्तिष्ठते यत्र तत्र तीर्थं न संशयः
एते तीर्थाः समाख्याता राजवेश्म तथैव च । वेन उवाच- पात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम
प्रसादसुमुखो भूत्वा कृपया मम माधव । वासुदेव उवाच- शृणु राजन्महाप्राज्ञ पात्रस्यापि सुलक्षणम्
यस्मै देयं सुदानं च श्रद्धापूतैर्महात्मभिः । ब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम्
शांतं दांतं तपोयुक्तं शुक्लमेव विशेषतः । प्रज्ञावंतं ज्ञानवंतं देवपूजनतत्परम्
सत्यवंतं महापुण्यं वैष्णवं ज्ञानपंडितम् । धर्मज्ञं मुक्तलौल्यं च पाखंडैस्तु विवर्जितम्
एवं पात्रं समाख्यातमन्यदेवं वदाम्यहम् । एवमेतैर्गुणैर्युक्तं स्वसृपुत्रं नरोत्तमम्
एतं पात्रं विजानीहि दुहितुस्तनयं ततः । जामातरं महाराज भावैरेतैश्च संयुतम्
गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम । एतान्येव सुपात्राणि दानयोग्यानि सत्तम
वेदाचारसमोपेतस्तृप्तिं नैव च गच्छति । वर्जयेत्किल तं विप्रं तथा काणं सुधूर्तकम्
अतिकृष्णं महाराज कपिलं परिवर्जयेत् । कर्कटाक्षं सुनीलं च श्यावदन्तं विवर्जयेत्
नीलदंतं तथा राजन्पीतदंतं तथैव च । गोघ्नं सुकृष्णदंतं च बर्बरं चातिपांशुलम्
हीनांगमधिकांगं च कुष्ठिनं कुनखं तथा । दुश्चर्माणं महाराज खल्वाटं परिवर्जयेत्
अन्यायेषु रता यस्य जाया विप्रस्य कस्य च । तस्मै दानं न दातव्यं यदि ब्रह्मसमो भवेत्
स्त्रीजिताय न दातव्यं शाखारंडे महामते । व्याधिताय न दातव्यं मृतभोजिषु भूपते
चोराय च न दातव्यं स यद्यत्रिसमो भवेत् । अतृप्ताय न दातव्यं शावं तु परिवर्जयेत्
अतिस्तब्धाय नो देयं शठाय च विशेषतः । वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः
श्राद्धे दाने च राजेंद्र नैव युक्तः कदा भवेत् । अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकम्
कालतीर्थसुपात्राणां श्रद्धा योगात्प्रजायते । नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम्
नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृप । श्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेत्
पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तम । एवंविधस्य दानस्य विधियुक्तस्य यत्फलम्
अनंतं तदवाप्नोति मत्प्रसादात्सुखी भवेत्
वेन उवाच- नित्यदानफलं देव त्वत्तः पूर्वं मया श्रुतम् । नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम्
तत्फलं मे समाचक्ष्व त्वत्प्रसादात्प्रयत्नतः । महातृप्तिं न गच्छामि श्रोतुं श्रद्धा प्रवर्तते
विष्णुरुवाच- नैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम । महापर्वणि संप्राप्ते येन दानानि श्रद्धया