तथा ताञ्जारयाम्येतानुपायैर्दारुणैः किल । वासुदेव उवाच- नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रतः
प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परः । अमावास्या महाराज पौर्णमासी तथैव च
यदा भवति संक्रांतिर्व्यतीपातो नरेश्वर । वैधृतिश्च यदा प्रोक्ता यदा एकादशी भवेत्
महामाघी तथाषाढी वैशाखी कार्तिकी तथा । अमासोमसमायोगे मन्वादिषु युगादिषु
गजच्छाया तथा प्रोक्ता पितृक्षया तथैव च । एते नैमित्तिकाः ख्यातास्तवाग्रे नृपसत्तम
एतेषु दीयते दानं तस्य दानस्य यत्फलम् । तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तम
मामुद्दिश्य नरो भक्त्या ब्राह्मणाय प्रयच्छति । तस्याहं निर्विकल्पेन प्रयच्छामि न संशयः
गृहं सौख्यं महाराज स्वर्गमोक्षादिकं बहु । काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम्
व्रतानामेव सर्वेषां देवादीनां तथैव च । दानस्य पुण्यकालं तु संप्रोक्तं द्विजसत्तमैः
आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृप । मखानामेव सर्वेषां वैवाहिकमनुत्तमम्
पुत्रस्य जातमात्रस्य चौलमौंज्यादिकं तथा । प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि
वापीकूपतडागानां गृहवास्तुमयं नृप । तदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनम्
तस्मिन्काले ददेद्दानं सर्वसिद्धिप्रदायकम् । आभ्युदयिक एवायं कालः प्रोक्तो नृपोत्तम
अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम् । मृत्युकाले च संप्राप्ते क्षयं ज्ञात्वा नरोत्तम
तत्र दानं प्रदातव्यं यममार्गसुखप्रदम् । नित्यनैमित्तिकाः कालाः काम्याभ्युदयिकास्तथा
अंत्यःकालो महाराज समाख्यातस्तवाग्रतः । एते कालाः समाख्याताः स्वकर्मफलदायकाः
तीर्थस्य लक्षणं राजन्प्रवक्ष्यामि तवाग्रतः । सुतीर्थानामियं गंगा भाति पुण्या सरस्वती
रेवा च यमुना तापी तथा चर्मण्वती नदी । सरयूर्घर्घरा वेणा सर्वपापप्रणाशिनी
कावेरी कपिला चान्या विशाला विश्वतारणी । गोदावरी समाख्याता तुंगभद्रा नरोत्तम
पापानां भीतिदा नित्यं भीमरथ्या प्रपठ्यते । देविका कृष्णगंगा च अन्याः सरिद्वरोत्तमाः
एतासां पुण्यकालेषु संति तीर्थान्यनेकशः । ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः
तत्र तत्र प्रकर्तव्याः स्नानदानादिकाः क्रियाः । यदा न ज्ञायते नाम तासां तीर्थस्य सत्तमाः
नामोच्चारं प्रकुर्वीत विष्णुतीर्थमिदं नृप । तीर्थस्य देवता तद्वदहमेव न संशयः
मामेवमुच्चरेद्यो वै तीर्थे देवेषु साधकः । तस्य पुण्यफलं जातं मन्नाम्ना नृपनंदन
अज्ञातानां सुतीर्थानां देवानां नृपसत्तम । स्नाने दाने महाराज मन्नाम हि समुच्चरेत्
तीर्थानामेव राजेंद्र धात्रा धात्र्य इमाः कृताः । सिंधवः सर्वपुण्यानां सर्वस्थाः क्षितिमंडले
यत्रतत्र प्रकर्त्तव्यं स्नानदानादिकं नृप । अक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः
तीर्थरूपा महापुण्याः सागरा सप्त एव च । मानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः
निर्झराः पल्वलाः प्रोक्तास्तीर्थरूपा न संशयः । स्वल्पा नद्यो महाराज तासु तीर्थं प्रतिष्ठितम्
खातेष्वेवं च सर्वेषु वर्जयित्वा च कूपकम् । पर्वतास्तीर्थरूपाश्च मेर्वाद्याश्च महीतले