दानेन नश्यते पापं तस्माद्दानं ददस्व हि । अश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम
भूमिदानादिकं दानं ब्राह्मणेभ्यो ददस्व वै । सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः
सुदानाज्जायते कीर्तिः सुदानात्प्राप्यते सुखम् । दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च
दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तम । काले प्राप्ते व्रजेत्तीर्थं पुण्यस्यापि फलं त्विदम्
पात्रभूताय विप्राय श्रद्धापूतेन चेतसा । यो ददाति महादानं मयि भावं निवेश्य च
तस्याहं सकलं दद्मि मनसा यंयमिच्छति । वेन उवाच- कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणम्
तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम् । दानस्यापि जगन्नाथ विधिं विस्तरतो वद
प्रसादसुमुखो भूत्वा दया मे यदि वर्त्तते । श्रीकृष्ण उवाच-। दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप
काम्यं चान्यं महाराज चतुर्थप्रापकं पुनः । सूर्योदयस्य वेलायां पापं नश्यति सर्वतः
अंधकाराधिका घोरा नराणां नाशकारकाः । दिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः
तस्यैव तेजसा दग्धा भस्मतां यांति किल्बिषाः । उदयंतं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि
तस्य किं कथ्यते भूप नित्यं पुण्यविवर्द्धनम् । संप्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः
स्नात्वाभ्यर्च्य पितॄन्देवान्दानदाता भवेत्पुनः । यथाशक्तिप्रभावेन श्रद्धापूतेन चेतसा
अन्नं पयः फलं पुष्पं वस्त्रं तांबूलभूषणम् । हेमरत्नादिकं चैव तस्य पुण्यमनंतकम्
मध्याह्ने तु ततो राजन्नपराह्णे तथैव च । मामुद्दिश्य च यो दद्यात्तस्य पुण्यमनंतकम्
खाद्यपानादिकं मिष्ट लेपनं गंधकुंकुमम् । कर्पूरादिकमेवापि वस्त्रालंकारसंयुतम्
अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम् । नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः
अथातः संप्रवक्ष्यामि नैमित्तिकमनुत्तमम् । त्रिकालेष्वपि दातव्यं दानमेव न संशयः
शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता । यस्मिन्काले प्रदत्तं हि किंचिद्दानं नराधिप
तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः । धनाढ्यो गुणवान्प्राज्ञः पंडितोऽपि विचक्षणः
पक्षं मासं दिनं यावन्न दत्तं वै यदाशनम् । तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम्
स्वमलं भक्षितं चैव अदत्वा दानमुत्तमम् । उत्पादयाम्यहं रोगं सर्वभोगनिवारणम्
तेषां कायेष्वसंतुष्टो बहुपीडाप्रदायकम् । मंदानलेन संयुक्तं ज्वरसंतापकारकम्
त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु च । स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम्
प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत् । उपवासैर्महाराज कायशोषकरादिकैः
चर्मकारो यथा चर्म कुंडस्थोपरि निर्घृणः । शोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा
तथाहं पापकर्तारं शोधयामि न संशयः । औषधीनां सुयोगाच्च कषायैः कटुकैर्ध्रुवम्
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा । अन्ये भुंजन्ति तस्योग्र भोगान्पुण्यान्मनोनुगान्
किं करोति समर्थश्च न दत्तं दानमुत्तमम् । महता पापरूपेण तमेवं परितापये
नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथा । न दत्तं राजराजेंद्र श्रद्धापूतेन चेतसा