शुद्धोसि तपसा च त्वं ततः पुण्यं वदाम्यहम् । पुरा वै ब्रह्मणा तात पृष्टोहं भवता यथा
तस्मै यदुदितं वत्स तत्ते सर्वं वदाम्यहम् । एकदा ब्रह्मणा ध्यानस्थितेन नाभिपंकजे
प्रादुरास तदा तस्य वरदानाय सुव्रत । तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम्
वासुदेवाभिधानं च सुगतिप्रदमिच्छता । स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत्
सर्वसौख्यप्रदं नॄणां पठतां जपतां सदा । उपादिशं महाभाग विष्णुप्रीतिकरं परम्
विष्णुरुवाच- एतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना । अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः
वसंति यत्र भूतानि वसत्येषु च यो विभुः । स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात्
संकर्षति प्रजाश्चांते ह्यव्यक्ताय यतो विभुः । ततः संकर्षणो नाम्ना विज्ञेयः शरणागतैः
इंगिते कामरूपोहं बहु स्यामिति काम्यया । प्रद्युम्नोहं बुधैस्तस्माद्विज्ञेयोस्मि सुतार्थिभिः
अत्र लोके विना चेशौ सर्वेशौ हरकेशवौ । निरुद्धोहं योगबलान्न केनातोनिरुद्धवत्
विश्वाख्योहं प्रतिजगज्ज्ञानविज्ञानसंयुतः । अहमित्यभिमानी च जाग्रच्चिंतासमाकुलः
तैजसोहं जगच्चेष्टामयश्चेंद्रियरूपवान् । ज्ञानकर्मसमुद्रिक्तः स्वप्नावस्थां गतो ह्यहम्
प्राज्ञोहमधिदैवात्मा विश्वाधिष्ठानगोचरः । सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः
तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः । निर्लिप्तः साक्षिवद्विश्व प्रतिबिंबित विग्रहः
चिदाभासश्चिदानंदश्चिन्मयश्चित्स्वरूपवान् । नित्योक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम्
भगवानुवाच- इत्युक्त्वांतर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा । सोपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणात्
राजंस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च । तथाप्याराधय विभुं स्तोत्रेणानेन सुव्रत
तुष्टो विष्णुस्तमभ्याह वरं वरय मानद । वेन उवाच- सुगतिं देहि मे विष्णो दुष्कृतात्तारयस्व माम्
शरणं त्वां प्रपन्नोस्मि कारणं वद सद्गतेः । विष्णुरुवाच- पूर्वमेव महाभाग त्वंगेनापि महात्मना
अहमाराधितस्तेन तस्मै दत्तो वरो मया । प्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम्
कर्मणा स्वेन विप्रेंद्र पुण्येन नृपनंदन । आत्मार्थे त्वं महाभाग वरमेव प्रयाचय
शृणु वेन महाभाग वृत्तांतं पूर्वसंभवम् । तव मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते
सुशंखेन सुनीथायै बाल्ये पूर्वं महात्मना । ततस्त्वंगे वरो दत्तो मयैव विदितात्मना
त्वां समुद्धर्त्तुकामेन सुपुत्रस्ते भविष्यति । एवमुक्त्वा तु पितरं तवाहं गुणवत्सल
भवदंगात्समुद्भूतः करिष्ये लोकपालनम् । दिवींद्रो हि यथा भाति तथाहं भूतले स्थितः
आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः । अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम
गत्यर्थमात्मनो राजन्दानमेकं समाचर । यस्त्वां पातकरूपोऽहं सुनीथायाः परंतप
अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम् । अन्यथा तु सुशंखस्य वाक्यमेवान्यथा भवेत्
अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तम । कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः
दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम् । तस्माद्दानं ददस्व त्वं दानात्पुण्यं प्रवर्तते