मत्प्रीतये चरित्रं स्वं त्वं ब्रूहि मम राक्षस । कर्मणा केनजातोऽसि विरूपोऽतिभयंकरः
श्मश्रुलो दीर्घदंष्ट्रंश्च क्रव्यादो गिरिगह्वरे । राक्षस उवाच। इष्टं ददाति गृह्णाति गुह्यं वदति पृच्छति
प्रीत्या हि सज्जनो भद्रे तच्च सर्वं त्वयि स्थितम् । त्वया संभावितो नूनं मन्येऽहं वामलोचने
भाविनी निष्कृतिः सद्यस्त्वयास्य क्रूरकर्मणः । अतो वक्ष्यामि ते भद्रे दुष्कृतं यत्स्वयंकृतम्
निवेद्य सज्जने दुःखं ततः सर्वसुखी भवेत् । शृणु सुश्रोण्यहं काश्यां बह्वृचो वेदपारगः
जातः पुरा द्विजः श्रेष्ठः कुले महति निर्मले । राज्ञां दुष्कृतिनां भीरु शूद्राणां च तथा विशाम्
वाराणस्यां कृतो घोरो मया दुष्टप्रतिग्रहः । बहुधा बहुधा वारं निषिद्धः कुत्सितो बहु
चांडालस्यापि न त्यक्तो मया दुष्टप्रतिग्रहः । अन्यच्च पातकं तत्र ममाभून्मूढचेतसः । तन्नास्ति दुष्कृतं कर्म मया यत्र न यत्कृतम्
अन्यच्च श्रूयतां दोषः क्षेत्रस्य वरवर्णिनि । अविमुक्तेऽणुमात्रं यत्तदघं मेरुतां व्रजेत् । न धर्मस्तु मया कश्चित्संचितस्तत्र जन्मनि
ततो बहुतिथे काले मृतस्तत्रैव शोभने । अविमुक्तप्रभावेण न चाहं नरकं गतः
अविमुक्ते मृतः कश्चिन्नरकं नेति किल्बिषी । अविमुक्ते कृतं किंचित्पापं वज्री भवेद्दृढम्
वज्रलेपेन पापेन तेन मे जन्म राक्षसम् । रौद्रं क्रूरतरं पापं संभूतं हिमपर्वते
द्विर्जातो गृध्रयोनौ प्राक्त्रिर्व्याघ्रो द्विः सरीसृपः । एकवारमुलूकस्तु विड्वराहस्ततः परम्
इदं तु दशमं जन्म राक्षसं मम भामिनी । अतीतानि सहस्राणि वर्षाणि मम जन्मनः
नास्ति मे निष्कृतिर्भद्रे एतस्माद्दुःखसागरात् । अत्र त्रियोजनं सुभ्रूर्निर्जंतु हि मया कृतम्
अनागसां च भूतानां बहूनां च कृतः क्षयः । कर्मणा तेन मे सुभ्रूर्दह्यते सततं मनः
त्वद्दर्शनसुधासिक्तं गतं शैत्यं मनो मम । तीर्थं फलति कालेन सद्यः साधुसमागमः
अतः सत्संगतिं सुभ्रूः प्रशंसंति मनीषिणः । एतत्ते कथितं सर्वं स्वदुःखं हृद्गतं मया
विरलः सज्जनः सुभ्रूः स्वात्मा यस्य न खिद्यते । जानास्यत्रोचितं त्वं हि किंचिन्नो वच्म्यतः परम्
अस्य दुःखोदधेः पारं कथं यामीति चिंतयन् । सज्जनानां समा भूतिः सर्वेषामुपजीवनम्
क्षीरार्णवः पयो दत्ते हंसाय न बकाय किम् । दत्तात्रेय उवाच। इति तस्य वचः श्रुत्वा दयार्द्रीकृतमानसा 6.127.
धर्मदाने मतिं कृत्वा जगौ कांचनमालिनी । करिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः
प्रतिज्ञां तु दृढां कृत्वा यतिष्ये तव मुक्तये । बहवो हि कृता माघा वर्षे वर्षे यथाविधि
श्रद्धापूर्वं मया भद्र ब्रह्मक्षेत्रे सितासिते । तां वदामि तु संख्यातिं तस्य धर्मस्य राक्षस
गूढो धर्मो हि कर्तव्य इत्यूचुर्विबुधा जनाः । आर्ते दानं प्रशंसंति मुनयो वेदवादिनः
सागरे वर्षतो भद्र किं मेघस्य फलं भवेत् । अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलम्
तत्तु दास्यामि ते मित्र सद्यः पापविनाशनम् । निष्पीड्याथ ततो वस्त्रं जलं कृत्वा करांबुजे
ददौ सा माघजं पुण्यं तस्मै वृद्धाय रक्षसे । शृणु राजन्विचित्रं हि प्रभावं माघधर्मजम्
तदैवं प्राप्य तत्पुण्यं विमुक्ता राक्षसी तनुः । संभूतो देवताकारस्तेजो भास्करविग्रहः
देवयानं समारूढः सहर्षोत्फुल्ललोचनः । द्योतमानस्तदा व्योम्नि भासयन्प्रभया दिशः