ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च । पश्चाद्राजा पृथिव्याश्च संजातः कृतविक्रमः
राजपुण्येन राजेंद्र सुखं जीवंति वै द्विजाः । राज्ञः पापेन नश्यंति तस्मात्पुण्यं समाचर
समादृतस्त्वया धर्मः कृतश्चापि नराधिप । त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि
कलेश्चैव प्रवेशं तु वर्त्तयिष्यंति मानवाः । जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः
वेदाचारं परित्यज्य पापं यास्यंति मानवाः । पापस्य मूलमेवं वै जैनधर्मं न संशयः
अनेन मुग्धा राजेंद्र महामोहेन पातिताः । मानवाः पापसंघातास्तेषां नाशाय नान्यथा
भविष्यत्येव गोविंदः सर्वपापापहारकः । स्वेच्छारूपं समासाद्य संहरिष्यति पातकात्
पापेषु संगतेष्वेवं म्लेच्छनाशाय वै पुनः । कल्किरेव स्वयं देवो भविष्यति न संशयः
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय । वर्तयस्व हि सत्येन प्रजापालो भवस्व हि
वेन उवाच- अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह । योऽन्यथा वर्तते चैव स दंड्यो भवति ध्रुवम्
अत्यर्थं भाषमाणं तं राजानं पापचेतनम् । कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः
कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु । ब्रह्मशापभयात्तेषां वल्मीकं प्रविवेश ह
अथ ते मुनयः क्रुद्धा वेनं पश्यंति सर्वतः । ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्थं सुसांप्रतम्
बलादानिन्युस्तं विप्राः क्रूरं तं पापचेतनम् । दृष्ट्वा च पापकर्माणं मुनयः सुसमाहिताः
सव्यं पाणिं ममंथुस्ते भूपस्य जातमन्यवः । तस्माज्जातो महाह्रस्वो नीलवर्णो भयंकरः
बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्द्धरः । सर्वेषामेव पापानां निषादानां बभूव ह
धाता पालयिता राजा म्लेच्छानां तु विशेषतः । तं दृष्ट्वा पापकर्माणमृषयस्तु महामते
ममंथुर्दक्षिणं पाणिं वेनस्यापि महात्मनः । तस्माज्जातो महात्मा स येन दुग्धा वसुंधरा
पृथुर्नाम महाप्राज्ञो राजराजो महाबलः । तस्य पुण्यप्रसादाच्च वेनो धर्मार्थकोविदः
चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः । जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम्
ऋषय ऊचुः- कथं वेनो गतः स्वर्गं पापं त्यक्त्वा प्रदूरतः । तन्नो विस्तरतोऽत्रापि वद सत्यवतां वर
सूतउवाच- ऋषीणां पुण्यसंसर्गात्संवादाच्च द्विजोत्तम । कायस्य मथनात्पापो बहिस्तस्य विनिर्गतः
पश्चाद्वेनः स पुण्यात्मा ज्ञानं लेभे च शाश्वतम् । रेवाया दक्षिणे कूले तपश्चचार स द्विजाः
तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशने । वर्षाणां तु शतं साग्रं कामक्रोधविवर्जितः
तस्योग्रतपसादेवः शंखचक्रगदाधरः । प्रसन्नोभून्महाभागा निष्पापस्य नृपस्य वै
उवाच च प्रसन्नोऽस्मि व्रियतां वरउत्तमः । वेन उवाच- यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम्
अनेनापि शरीरेण गंतुमिच्छामि त्वत्पदम् । पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर । तवैव तेजसा देव तद्विष्णोः परमं पदम्
श्रीवासुदेव उवाच- क्वगतोऽसौ महामोहो येन त्वं मोहितो नृप । लोभेन मोहयुक्तेन तमोमार्गे निपातितः
वेन उवाच- यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो । अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात्
प्रजप्तव्यमथो पठ्यं तद्वदानुग्रहाद्विभो । भगवानुवाच- साधु भूप महाभाग पापं ते नाशमागतम्