नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः । वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियाम्
सुयज्ञानां निवृत्तिः स्याद्वेदानां हितथैव च । पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्तितः
सर्वपापमयो लोकः संजातस्तस्य शासनात् । नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम्
न दानाध्ययनं विप्रास्तस्मिञ्छासति पार्थिवे । एवं धर्मप्रलोपोभून्महत्पापं प्रवर्तितम्
अंगेन वार्यमाणस्तु अन्यथा कुरुते भृशम् । न ननाम पितुः पादौ मातुश्चैव दुरात्मवान्
सनकस्यापि विप्रस्य अहमेकः प्रतापवान् । पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान्
न करोति शुभं पुण्यं तीर्थदानादिकं कदा । आत्मभावानुरूपं च बहुकालं महायशाः
पुनः सर्वैर्विचार्यैवं कस्मात्पापी व्यजायत । अंगप्रजापतेः पुत्रो वंशलाञ्छनमागतः
पुनः पप्रच्छ धर्मात्मा सुतां मृत्योर्महात्मनः । कस्य दोषात्समुत्पन्नो वद सत्यं मम प्रिये
सुनीथोवाच- पूर्वमेव स्ववृत्तांतमात्मपुण्यं च नंदिनी । समाचष्ट च अंगाय मम दोषान्महामते
बाल्ये कृतं मया पापं सुशंखस्य महात्मनः । तपसि संस्थितस्यापि नान्यत्किंचित्कृतं मया
शप्ताहं कुप्यता तेन दुष्टा ते संततिर्भवेत् । इति जाने महाभाग तेनायं दुष्टतां गतः
समाकर्ण्य महातेजास्तया सह वनं ययौ । गते तस्मिन्महाभागे सभार्ये च वने तदा
सप्तैते ऋषयस्तत्र वेनपार्श्वं गतास्तथा । समाहूय ततः प्रोचुरंगस्य तनयं प्रति
ऋषय ऊचुः- मा वेन साहसं कार्षीःप्रजापालो भवानिह । त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरम्
धर्मे चैव महाभाग सकलं हि प्रतिष्ठितम् । पापकर्मपरित्यज्य पुण्यं कर्म समाचर
एवमुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीत् । वेन उवाच- अहमेव परो धर्मोऽहमेवार्हः सनातनः
अहं धाता अहं गोप्ता अहं वेदार्थ एव च । अहं धर्मो महापुण्यो जैनधर्मः सनातनः
मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम् । ऋषय उचुः- ब्राह्मणाः क्षत्त्रिया वैश्यास्त्रयोवर्णा द्विजातयः
सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी । वेदाचारेण वर्तंते तेन जीवंति जंतवः
ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च । पश्चाद्राजा पृथिव्याश्च संजातः कृतविक्रमः
राजपुण्येन राजेंद्र सुखं जीवंति वै द्विजाः । राज्ञः पापेन नश्यंति तस्मात्पुण्यं समाचर
समादृतस्त्वया धर्मः कृतश्चापि नराधिप । त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि
कलेश्चैव प्रवेशं तु वर्त्तयिष्यंति मानवाः । जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः
वेदाचारं परित्यज्य पापं यास्यंति मानवाः । पापस्य मूलमेवं वै जैनधर्मं न संशयः
अनेन मुग्धा राजेंद्र महामोहेन पातिताः । मानवाः पापसंघातास्तेषां नाशाय नान्यथा
भविष्यत्येव गोविंदः सर्वपापापहारकः । स्वेच्छारूपं समासाद्य संहरिष्यति पातकात्
पापेषु संगतेष्वेवं म्लेच्छनाशाय वै पुनः । कल्किरेव स्वयं देवो भविष्यति न संशयः
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय । वर्तयस्व हि सत्येन प्रजापालो भवस्व हि
वेन उवाच- अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह । योऽन्यथा वर्तते चैव स दंड्यो भवति ध्रुवम्