अहं धर्मस्य सर्वस्वमहं पूज्यतमोसुरैः । अहं ज्ञानमहं सत्यमहं धाता सनातनः
अहं धर्मं अहं मोक्षः सर्वदेवमयो ह्यहम् । ब्रह्मदेहात्समुद्भूतः सत्यसंधोऽस्मि नान्यथा
जिनरूपं विजानीहि सत्यधर्मकलेवरम् । मामेव हि प्रधावंति योगिनो ज्ञानतत्पराः
वेन उवाच- तवैव कीदृशं कर्म किं ते दर्शनमेव च । किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा
पातक उवाच- अर्हंतो देवता यत्र निर्ग्रंथो दृश्यते गुरुः । दया चैव परो धर्मस्तत्र मोक्षः प्रदृश्यते
दर्शनेस्मिन्न संदेह आचारान्प्रवदाम्यहम् । यजनं याजनं नास्ति वेदाध्ययनमेव च
नास्ति संध्या तपो दानं स्वधास्वाहाविवर्जितम् । हव्यकव्यादिकं नास्ति नैव यज्ञादिका क्रिया
पितॄणां तर्पणं नास्ति नातिथिर्वैश्वदेविकम् । क्षपणस्य वरा पूजा अर्हतो ध्यानमुत्तमम्
अयं धर्मसमाचारो जैनमार्गे प्रदृश्यते । एतत्ते सर्वमाख्यातं निजधर्मस्यलक्षणम्
वेन उवाच- वेदप्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः । पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते
न दानं तप एवास्ति क्वास्ते धर्मस्य लक्षणम् । वद सत्यं ममाग्रे तु दयाधर्मं च कीदृशम्
पातक उवाच- पंचतत्त्वप्रवृद्धोयं प्राणिनां काय एव च । आत्मा वायुस्वरूपोयं तेषां नास्ति प्रसंगता
यथा जलेषु भूतानामपिसंगमवेहि तत् । जायते बुद्बुदाकारं तद्वद्भूतसमागमः
पृथ्वीभावो रजःस्थस्तु चापस्तत्रैव संस्थिताः । ज्योतिस्तत्र प्रदृश्येत सुवायुर्वर्तते त्रिषु
आकाशमावृणोत्पश्चाद्बुद्बुदत्वं प्रजायते । अप्सुमध्ये प्रभात्येव सुतेजो वर्तुलं वरम्
क्षणमात्रं प्रदृश्येत क्षणान्नैव च दृश्यते । तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते
अंतकाले प्रयात्यात्मा पंच पंचसु यांति ते । मोहमुग्धास्ततो मर्त्या वर्तंते च परस्परम्
श्राद्धं कुर्वंति मोहेन क्षयाहे पितृतर्पणम् । क्वास्ते मृतः समश्नाति कीदृशोऽसौ नृपोत्तम
किं ज्ञानं कीदृशं कायं केन दृष्टं वदस्व नः । मिष्टान्नं भोजयित्वा च तृप्ता यांति च ब्राह्मणाः
कस्य श्राद्धं प्रदीयेत सा तु श्रद्धा निरर्थिका । अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम्
यदातिथिर्गृहे याति महोक्षं पचते द्विजः । अजं वा राजराजेंद्र अतिथिं परिभोजयेत्
अश्वमेधमखे अश्वं गोमेधे वृषमेव च । नरमेधे नरं राजन्वाजपेये तथा ह्यजान्
राजसूये महाराज प्राणिनां घातनं बहु । पुंडरीके गजं हन्याद्गजमेधेऽथ कुंजरम्
सौत्रामण्यां पशुं मेध्यं मेषमेव प्रदृश्यते । नानारूपेषु सर्वेषु श्रूयतां नृपनंदन
नानाजातिविशेषाणां पशूनां घातनं स्मृतम् । यच्चापि दीयते दानं किं तद्दानस्य लक्षणम्
ज्ञेयं तदन्नमुच्छिष्टं क्रियते भूरिभोजनम् । अत्यंतदोषहीनांस्तान्हिंसंति यन्महामखे
तत्र किं दृश्यते धर्मः किं फलं तत्र भूपते । पशूनां मारणं यत्र निर्दिष्टं वेदपंडितैः
तस्माद्विनष्टधर्मं च न पुण्यं मोक्षदायकम् । दयां विना हि यो धर्मः स धर्मो विफलायते
जीवानां पालनं यत्र तत्र धर्मो न संशयः । स्वाहाकारः स्वधाकारस्तपः सत्यं नृपोत्तम
दयाहीनं चापलं स्यान्नास्ति धर्मस्तु तत्र हि । एते वेदा न वेदाः स्युर्दया यत्र न विद्यते