तप्यमानेन तेनापि सुशंखेन महात्मना । दत्तः शापः कथं विप्रा न यथावच्च जायते
वेनस्य पातकाचारं सर्वमेव वदाम्यहम् । तस्मिञ्छासति धर्मज्ञे प्रजापाले महात्मनि
पुरुषः कश्चिदायातश्छद्म लिंगधरस्तदा । नग्नरूपो महाकायः शिरोमुंडो महाप्रभः
मार्जनीं शिखिपत्राणां कक्षायां स हि धारयन् । गृहीतं पानपात्रं तु नालिकेरमयं करे
पठमानो ह्यसच्छास्त्रं वेदधर्मविदूषकम् । यत्र वेनो महाराजस्तत्रायातस्त्वरान्वितः
सभायां तस्य वेनस्य प्रविवेश स पापवान् । तं दृष्ट्वा समनुप्राप्तं वेनः प्रश्नं तदाकरोत्
भवान्को हि समायात ईदृग्रूपधरो मम । सभायां वर्तमानस्य पुरः कस्मात्समागतः
को वेषः किं नु ते नाम को धर्मः कर्म ते वद । को वेदस्ते क आचारः किं तपः का प्रभावना
किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणम् । तत्त्वं सर्वं समाचक्ष्व ममाग्रे सत्यमेव च
श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरत् । पातक उवाच- करोष्येवं वृथा राज्यं महामूढो न संशयः
अहं धर्मस्य सर्वस्वमहं पूज्यतमोसुरैः । अहं ज्ञानमहं सत्यमहं धाता सनातनः
अहं धर्मं अहं मोक्षः सर्वदेवमयो ह्यहम् । ब्रह्मदेहात्समुद्भूतः सत्यसंधोऽस्मि नान्यथा
जिनरूपं विजानीहि सत्यधर्मकलेवरम् । मामेव हि प्रधावंति योगिनो ज्ञानतत्पराः
वेन उवाच- तवैव कीदृशं कर्म किं ते दर्शनमेव च । किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा
पातक उवाच- अर्हंतो देवता यत्र निर्ग्रंथो दृश्यते गुरुः । दया चैव परो धर्मस्तत्र मोक्षः प्रदृश्यते
दर्शनेस्मिन्न संदेह आचारान्प्रवदाम्यहम् । यजनं याजनं नास्ति वेदाध्ययनमेव च
नास्ति संध्या तपो दानं स्वधास्वाहाविवर्जितम् । हव्यकव्यादिकं नास्ति नैव यज्ञादिका क्रिया
पितॄणां तर्पणं नास्ति नातिथिर्वैश्वदेविकम् । क्षपणस्य वरा पूजा अर्हतो ध्यानमुत्तमम्
अयं धर्मसमाचारो जैनमार्गे प्रदृश्यते । एतत्ते सर्वमाख्यातं निजधर्मस्यलक्षणम्
वेन उवाच- वेदप्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः । पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते
न दानं तप एवास्ति क्वास्ते धर्मस्य लक्षणम् । वद सत्यं ममाग्रे तु दयाधर्मं च कीदृशम्
पातक उवाच- पंचतत्त्वप्रवृद्धोयं प्राणिनां काय एव च । आत्मा वायुस्वरूपोयं तेषां नास्ति प्रसंगता
यथा जलेषु भूतानामपिसंगमवेहि तत् । जायते बुद्बुदाकारं तद्वद्भूतसमागमः
पृथ्वीभावो रजःस्थस्तु चापस्तत्रैव संस्थिताः । ज्योतिस्तत्र प्रदृश्येत सुवायुर्वर्तते त्रिषु
आकाशमावृणोत्पश्चाद्बुद्बुदत्वं प्रजायते । अप्सुमध्ये प्रभात्येव सुतेजो वर्तुलं वरम्
क्षणमात्रं प्रदृश्येत क्षणान्नैव च दृश्यते । तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते
अंतकाले प्रयात्यात्मा पंच पंचसु यांति ते । मोहमुग्धास्ततो मर्त्या वर्तंते च परस्परम्
श्राद्धं कुर्वंति मोहेन क्षयाहे पितृतर्पणम् । क्वास्ते मृतः समश्नाति कीदृशोऽसौ नृपोत्तम
किं ज्ञानं कीदृशं कायं केन दृष्टं वदस्व नः । मिष्टान्नं भोजयित्वा च तृप्ता यांति च ब्राह्मणाः
कस्य श्राद्धं प्रदीयेत सा तु श्रद्धा निरर्थिका । अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम्