मया चाराधितो विष्णुः सर्वविश्वमयो हरिः । तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः
तन्निमित्तमहं भद्रे सुतार्थं नित्यमेव च । कस्यचित्पुण्यवीर्यस्य कन्यामेकां प्रचिंतये
सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम् । इयं धर्मस्य वै कन्या धर्माचारा वरानना
मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति । यं यमिच्छेदियं बाला तं ददामि न संशयः
अदेयं देयमित्याह अस्याः संगमकारणात् । एकमेवं त्वया देयं श्रूयतां द्विजसत्तम
रंभोवाच- विप्रेंद्र त्वं शृणुष्वेह प्रतिज्ञां वच्मि सांप्रतम् । एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि
अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा । इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय
स्वहस्तं देहि विप्रेंद्र सत्यप्रत्ययकारकम् । एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः
सूत उवाच- एवं संबधिकं कृत्वा सत्यप्रत्ययकारकम् । गांधर्वेण विवाहेन सुनीथामुपयेमिवान्
तस्मै दत्वा सुनीथां तां रंभा हृष्टेन चेतसा । सा तां चामंत्रयित्वा वै गता गेहं स्वकं पुनः
प्रहृष्टचेतसः सख्यः स्वस्थानं परिजग्मिरे । गतासु तासु सर्वासु सखीषु द्विजसत्तमः
रेमे त्वंगस्तया सार्धं प्रियया भार्यया सह । तस्यामुत्पाद्य तनयं सर्वलक्षणसंयुतम्
चकार नाम तस्यैव वेनाख्यं तनयस्य हि । ववृधे स महातेजाः सुनीथातनयस्तदा
वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितम् । सर्वासामपि मेधावी विद्यानां पारमेयिवान्
अंगस्य तनयो वेनः शिष्टाचारेण वर्तते । स वेनो ब्राह्मणश्रेष्ठः क्षत्त्राचारपरोऽभवत्
दिवि चेंद्रो यथा भाति सर्वतेजःसमन्वितः । भात्येवं तु महाप्राज्ञः स्वबलेन पराक्रमैः
चाक्षुषस्यांतरे प्राप्ते वैवस्वतसमागते । प्रजापालं विना लोके प्रजाः सीदंति सर्वदा
ऋषयो धर्मतत्त्वज्ञाः प्रजाहेतोस्तपोधनाः । व्यचिंतयन्महीपालं धर्मज्ञं सत्यपंडितम्
तं वेनमेव ददृशुः संपन्नं लक्षणैर्युतम् । प्राजापत्ये पदे पुण्ये अभ्यषिंचन्द्विजोत्तमाः
अभिषिक्ते महाभागे त्वंगपुत्रे तदा नृपे । ते प्रजापतयः सर्वे जग्मुश्चैव तपोवनम्
गतेषु तेषु सर्वेषु वेनो राज्यमकारयत् । सूत उवाच- सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम्
विशंकते प्रभावेण शापात्तस्य महात्मनः । मम पुत्रो महाभागो धर्मत्राता भविष्यति
इत्येवं चिंतयेन्नित्यं पूर्वपापाद्विशंकिता । धर्मांगानि सुपुण्यानि सुताग्रे परिदर्शयेत्
सत्यभावादि कान्पुण्यान्गुणान्सा वै प्रकाशयेत् । इत्युवाच सुतं सा हि अहं धर्मसुता सुत
पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर । इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती
मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत् । एवं वेनः प्रजापालः संजातःक्षितिमंडले
सुखेन जीवते लोकःप्रजाधर्मेणरंजिताः । एवं राज्यप्रभावं तु वेनस्यापि महात्मनः
धर्मभावाः प्रवर्तंते तस्मिञ्छासति पार्थिवे
सप्तत्रिंशोऽध्यायः 2.37 ऋषय ऊचुः- एवं वेनस्य चैवासीत्सृष्टिरेव महात्मनः । धर्माचारं परित्यज्य कथं पापमतिर्भवेत्
सूत उवाच- ज्ञानविज्ञानसंपन्ना मुनयस्तत्त्ववेदिनः । शुभाशुभं वदंत्येवं तन्न स्यादिह चान्यथा