इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने पंचत्रिंशोऽध्यायः
सुनीथोवाच- सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम् । अनया विद्यया विप्रं मोहयिष्यामि नान्यथा
साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम् । एवमुक्ता तया रंभा तामुवाच मनस्विनीम्
कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि । दूतत्वं गच्छ मे भद्रे एतं प्रति सुसांप्रतम्
एवमुक्तं तया तां तु रंभां प्रति सुलोचनाम् । एवमेव प्रतिज्ञातं रंभया देवयोषिता
करिष्ये तव साहाय्यमादेशो मम दीयताम् । सद्भावेन विशालाक्षी रूपयौवनशालिनी
मायया दिव्यरूपा सा संबभूव वरानना । रूपेणाप्रतिमालोके मोहयंती जगत्त्रयम्
मेरोश्चैव महापुण्ये शिखरे चारुकंदरे । नानाधातुसमाकीर्णे नानारत्नोपशोभिते
देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते । देववृंदसमाकीर्णे गंधर्वाप्सरसेविते
मनोहरे सुरम्ये च शीतच्छायासमाकुले । चंदनानामशोकानां तरूणां चारुहासिनी
दोलायां सा समारूढा सर्वशृङ्गारशोभिता । कौशेयेन सुनीलेन राजमाना वरानना
बंधूकपुष्पवर्णेन कंचुकेन द्विजोत्तम । सर्वांगसुंदरी बाला वीणातालकराविला
गायमाना वरं गीतं सुस्वरं विश्वमोहनम् । ताभिः परिवृता बाला सखीभिः सुमनोहरा
अंगस्तु कंदरे पुण्ये एकांते ध्यानमास्थितः । कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम्
स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम् । तालमानक्रियोपेतं सर्वसत्वविकर्षणम्
ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः । समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः
जगाम तत्र वेगेन मायाचलितमानसः । दोलासंस्थां विलोक्यैव वीणादंडकराविलाम्
हसमानां सुगायंतीं पूर्णचंद्रनिभाननाम् । मोहितस्तेन गीतेन रूपेणापि महायशाः
तस्या लावण्यभावेन मन्मथस्य शराहतः । आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः
प्रलपत्यतिमोहेन जृंभते च पुनः पुनः । स्वेदः कंपोथ संतापस्तस्याजायत तत्क्षणात्
मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः । वेपमानस्ततस्त्वंगो दूयमानः समागतः
तामालोक्य विशालाक्षीं मृत्युकन्यां यशस्विनीम् । अथोवाच महात्मा स सुनीथां चारुहासिनीम्
का त्वं कस्य वरारोहे सखीभिः परिवारिता । केन कार्येण संप्राप्ता केन त्वं प्रेषिता वनम्
तवांगं सुंदरं सर्वमत्र भाति महावने । समाचक्ष्व ममाद्यैव प्रसादसुमुखी भव
मायामोहेन संमुग्धस्तस्याः कर्म न विंदति । मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः
एवंविधं महद्वाक्यं समाकर्ण्य महामतेः । नोवाच किंचित्सा विप्रं समालोक्य सखीमुखम्
रंभां च प्रेरयामास सुनीथा संज्ञया सखीम् । समुवाच ततो रंभा सादरं तं द्विजं प्रति
इयं कन्या महाभागा मृत्योश्चापि महात्मनः । सुनीथाख्या प्रसिद्धेयं सर्वलक्षणसंपदा
पतिमन्विच्छती बाला धर्मवंतं तपोनिधिम् । शांतं दांतं महाप्राज्ञं वेदविद्याविशारदम्
एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः । तामुवाच ततस्त्वंगो रंभामप्सरसां वराम्