वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन । दत्तवान्स तदा पुत्रमीदृशं सर्वधारकम्
तदाप्रभृति विप्रेंद्रः पुण्यां कन्यां प्रपश्यति । यथा त्वं चारुसर्वांगी तथायं परिपश्यति
एनं गच्छ वरारोहे अस्मात्पुत्रो भविष्यति । पुण्यात्मा पुण्यधर्मज्ञो विष्णुतेजः पराक्रमः
एतत्ते सर्वमाख्यातं तथाहं पृच्छिता त्वया । अयं भर्ता भवत्यर्हो भवेदेव न संशयः
सुशंखस्यापि यः शापो वृथा सोऽपि भविष्यति । अस्माज्जाते महाभागे पुत्रे धर्मप्रचारिणि
भविष्यसि सुखी भद्रे सत्यं सत्यं वदाम्यहम् । सुक्षेत्रे कृषिकारस्तु बीजं वपति तत्परः
स तथा भुंजते देवि यथा बीजं तथा फलम् । अन्यथा नैव जायेत तत्सर्वं सदृशं भवेत्
अयमेष महाभागस्तपस्वी पुण्यवीर्यवान् । अस्य वीर्यात्समुत्पन्नो अस्यैवगुणसंपदा
युक्तः पुत्रो महातेजाःसर्वदेहभृतां वरः । भविष्यति महाभाग्यो युक्तात्मा योगतत्ववित्
एवं हि वाक्यं तु निशम्य बाला रंभाप्रियोक्तं शिवदायकं तत् । विचिंत्य बुद्ध्येह सुनीथया तदा तत्त्वार्थमेतत्परिसत्यमेव हि
इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने पंचत्रिंशोऽध्यायः
सुनीथोवाच- सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम् । अनया विद्यया विप्रं मोहयिष्यामि नान्यथा
साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम् । एवमुक्ता तया रंभा तामुवाच मनस्विनीम्
कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि । दूतत्वं गच्छ मे भद्रे एतं प्रति सुसांप्रतम्
एवमुक्तं तया तां तु रंभां प्रति सुलोचनाम् । एवमेव प्रतिज्ञातं रंभया देवयोषिता
करिष्ये तव साहाय्यमादेशो मम दीयताम् । सद्भावेन विशालाक्षी रूपयौवनशालिनी
मायया दिव्यरूपा सा संबभूव वरानना । रूपेणाप्रतिमालोके मोहयंती जगत्त्रयम्
मेरोश्चैव महापुण्ये शिखरे चारुकंदरे । नानाधातुसमाकीर्णे नानारत्नोपशोभिते
देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते । देववृंदसमाकीर्णे गंधर्वाप्सरसेविते
मनोहरे सुरम्ये च शीतच्छायासमाकुले । चंदनानामशोकानां तरूणां चारुहासिनी
दोलायां सा समारूढा सर्वशृङ्गारशोभिता । कौशेयेन सुनीलेन राजमाना वरानना
बंधूकपुष्पवर्णेन कंचुकेन द्विजोत्तम । सर्वांगसुंदरी बाला वीणातालकराविला
गायमाना वरं गीतं सुस्वरं विश्वमोहनम् । ताभिः परिवृता बाला सखीभिः सुमनोहरा
अंगस्तु कंदरे पुण्ये एकांते ध्यानमास्थितः । कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम्
स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम् । तालमानक्रियोपेतं सर्वसत्वविकर्षणम्
ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः । समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः
जगाम तत्र वेगेन मायाचलितमानसः । दोलासंस्थां विलोक्यैव वीणादंडकराविलाम्
हसमानां सुगायंतीं पूर्णचंद्रनिभाननाम् । मोहितस्तेन गीतेन रूपेणापि महायशाः
तस्या लावण्यभावेन मन्मथस्य शराहतः । आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः
प्रलपत्यतिमोहेन जृंभते च पुनः पुनः । स्वेदः कंपोथ संतापस्तस्याजायत तत्क्षणात्