देवानमंतितं देवमृषयो वेदपारगाः । आदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत्
लोकानमंतितं देवं देवाद्याः सचराचराः । कृष्णो भुंक्ते महाशापं भार्गवेण कृतं पुरा
गुरुभार्यांगतश्चंद्रः क्षयी तेन प्रजायते । भविष्यति महातेजा राजराजः प्रतापवान्
पांडुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरः । गुरोश्चैव वधार्थाय अनृतं स वदिष्यति
एतेष्वेव महत्पापं वर्तते च महत्सु च । वैगुण्यं कस्य वै नास्ति कस्य नास्ति च लांछनम्
भवती स्वल्पदोषेण विलिप्तासि वरानने । उपकारं करिष्यामस्तवैव वरवर्णिनि
तवांगे ये गुणाः संति सत्यस्त्रीणां यथा शुभे । अन्यत्रापि न पश्यामस्तान्गुणांश्चारुलोचने
रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभे । शीलमेव द्वितीयं च तृतीयं सत्यमेव च
आर्जवत्वं चतुर्थं च पंचमं धर्ममेव हि । मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने
शुद्धत्वं सप्तमं बाले अंतर्बाह्येषु योषितम् । अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल
सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा । पातिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि
तैस्त्वं संभूषिता बाले मा बिभेषि वरानने । येनोपायेन ते भर्ता भविष्यति सुधर्मधृक्
तमुपायं प्रपश्यामस्तवार्थं वयमेव हि । तामूचुस्ता वराः सख्यो मा त्वं वै साहसं कुरु
सूत उवाच- एवमुक्ता सुनीथा सा पुनरूचे सखीस्तु ताः । कथयध्वं ममोपायं येन भर्ता भविष्यति
तामूचुस्ता वरा नार्यो रंभाद्याश्चारुलोचनाः । रूपमाधुर्यसंयुक्ता भवती भूतिवर्द्धनी
ब्रह्मशापेन संभीता वयमत्र समागताः । तां प्रोचुश्च विशालाक्षीं मृत्योः कन्यां सुलोचनाम्
विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम् । सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम्
विद्याबलं ततो दद्युस्तस्यैताः सुखदायकम् । यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम्
तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत् । विद्यायां हि सुसिद्धायां सा सुनीथा सुनंदिता
भ्रमत्येवं सखीभिस्तु पुरुषान्सा विपश्यति । अटमानागता पुण्यं नंदनं वनमुत्तमम्
गंगातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम् । सर्वलक्षणसंपन्नं सूर्यतेजः समप्रभम्
रूपेणाप्रतिमं लोके द्वितीयमिव मन्मथम् । देवरूपं महाभागं भाग्यवंतं सुभाग्यदम्
अनौपम्यं महात्मानं विष्णुतेजः समप्रभम् । वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम्
कामक्रोधविहीनं तमत्रिवंशविभूषणम्
दृष्ट्वा सुरूपं तपसां स्वरूपं दिव्यप्रभावं परितप्यमानम् । पप्रच्छ रंभां सुसखीं सरागा कोयं दिविष्ठः प्रवरो महात्मा
रंभोवाच- ब्रह्मा अव्यक्तसंभूतस्तस्माज्जज्ञे प्रजापतिः । अत्रिर्नाम स धर्मात्मा तस्य पुत्रो महामनाः
अंगो नाम अयं भद्रे नंदनं वनमागतः । इंद्रस्य संपदं दृष्ट्वा लीलातेजसमुत्तमाम्
कृता स्पृहा अनेनापि इंद्रस्य सदृशे पदे । ईदृशो हि यदा पुत्रो मम स्याद्धर्मसंयुतः
सुश्रेयो मे भवेज्जन्म यशः कीर्ति समन्वितम् । आराधितो हृषीकेशस्तपोभिर्नियमैस्तथा
सुप्रसन्ने हृषीकेशे वरं याचितवानयम् । इंद्रस्य सदृशं पुत्रं विष्णुतेजः पराक्रमम्