इत्युक्त्वा निर्गताः सर्वे बृहस्पतिपुरोगमाः । दृष्ट्वा सरसि विस्तीर्णे स्वर्णपंकजकाननम्
तुष्टुवुर्देवराजानं प्रबोधो येन जायते । ततो गुरोः प्रबोधेन निर्गतः पद्मकुड्मलात्
दीनाननो विरूपस्तु व्रीडाकुंचितलोचनः । जग्राह चरणाविंद्रो गुरोस्तस्याग्रजन्मनः
त्राहि मां निष्कृतिं ब्रूहि पापस्यास्य बृहस्पते । देवराजवचः श्रुत्वा जगौ विप्रो बृहस्पतिः
शृणु देवेंद्र वक्ष्येऽहमुपायं पापनाशनम् । प्रयागस्नानमात्रेण तत्क्षणादेव पातकात्
मुच्यसे देवराजत्वं तत्र यामः सहैव ते । अथ पुरोधसा सार्धमागत्य बलमर्दनः
सस्नौ सितासिते तीर्थे सद्यो मुक्तो ह्यघैस्ततः । अथ देवगुरुस्तस्मै प्रसन्नस्तु वरं ददौ
प्रयागस्नानमात्रेण क्षीणं पापं त्वयानघ । क्षीणपापस्य ते शक्र मत्प्रसादेन सत्वरम्
सहस्रमेतद्योनीनां सहस्रं स्याद्दृशां तव । तदैव द्विजवाक्येन शुशुभे च शचीपतिः
लोचनानां सहस्रेण पंकजैरिव मानसम् । अथ वृंदारकैः सर्वैरृषिभिश्चाभिपूजितः
गंधर्वैः स्तूयमानस्तु गतः शक्रोऽमरावतीम् । इत्थं सद्यो विपापोऽभूत्प्रयागे पाकशासनः
याहि त्वमपि कल्याणि प्रयागं देवसेवितम् । सद्यः पापविनाशाय तथा स्वर्गतये दृढम्
इति तस्य वचः श्रुत्वा सेतिहासं समंगलम् । तदैव संभ्रमापन्ना नत्वा पादौ द्विजस्य तु
त्यक्त्वा बंधुजनं सर्वं दासदासीगृहं तथा । सकलान्विषयान्रक्षो विषग्रासानिव स्फुटम्
वपुश्च क्षणविध्वंसि पश्यंती निर्गता ह्यहम् । नरकार्णवसंपात दारुणांतर वह्निना
हृदये कुणपव्याघ्र तदा तत्तप्यमानया । मया गत्वा कृतं स्नानं माघे मासि सितासिते
तस्य स्नानस्य माहात्म्यं शृणु वृद्धनिशाचर । त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः
शेषैर्मे यदभूत्पुण्यं तेन देवत्वमागता । रममाणा तु कैलासे गिरिजायाः प्रिया सखी
जातिस्मरा तथा जाता प्रयागस्य प्रभावतः । स्मृत्वा प्रयागमाहात्म्यं माघे माघे व्रजाम्यहम्
इति राक्षस यत्पृष्टं त्वया विस्मितचेतसा । तन्मया कथितं सर्वं चरितं प्रीतये तव
मत्प्रीतये चरित्रं स्वं त्वं ब्रूहि मम राक्षस । कर्मणा केनजातोऽसि विरूपोऽतिभयंकरः
श्मश्रुलो दीर्घदंष्ट्रंश्च क्रव्यादो गिरिगह्वरे । राक्षस उवाच। इष्टं ददाति गृह्णाति गुह्यं वदति पृच्छति
प्रीत्या हि सज्जनो भद्रे तच्च सर्वं त्वयि स्थितम् । त्वया संभावितो नूनं मन्येऽहं वामलोचने
भाविनी निष्कृतिः सद्यस्त्वयास्य क्रूरकर्मणः । अतो वक्ष्यामि ते भद्रे दुष्कृतं यत्स्वयंकृतम्
निवेद्य सज्जने दुःखं ततः सर्वसुखी भवेत् । शृणु सुश्रोण्यहं काश्यां बह्वृचो वेदपारगः
जातः पुरा द्विजः श्रेष्ठः कुले महति निर्मले । राज्ञां दुष्कृतिनां भीरु शूद्राणां च तथा विशाम्
वाराणस्यां कृतो घोरो मया दुष्टप्रतिग्रहः । बहुधा बहुधा वारं निषिद्धः कुत्सितो बहु
चांडालस्यापि न त्यक्तो मया दुष्टप्रतिग्रहः । अन्यच्च पातकं तत्र ममाभून्मूढचेतसः । तन्नास्ति दुष्कृतं कर्म मया यत्र न यत्कृतम्
अन्यच्च श्रूयतां दोषः क्षेत्रस्य वरवर्णिनि । अविमुक्तेऽणुमात्रं यत्तदघं मेरुतां व्रजेत् । न धर्मस्तु मया कश्चित्संचितस्तत्र जन्मनि
ततो बहुतिथे काले मृतस्तत्रैव शोभने । अविमुक्तप्रभावेण न चाहं नरकं गतः