देवैश्चापि सगंधर्वैर्ऋषिभिश्च महात्मभिः । तैश्चापि संपरित्यक्तः पिता मे दुःखपीडितः
ममान्ये चापि स्वीकारं न कुर्वंति हि सज्जनाः । एवं पापमयं कर्म मया चैव पुरा कृतम्
संतप्ता दुःखशोकेन वनमेव समाश्रिता । तप एव चरिष्यामि करिष्ये कायशोषणम्
भवतीभिः सुपृष्टाहं कार्यकारणमेव हि । मम चिंतानुगं कर्म मया तद्वः प्रकाशितम्
एवमुक्त्वा सुनीथा सा मृत्योः कन्या यशस्विनी । विरराम च दुःखार्ता किंचिन्नोवाच वै पुनः
सख्य ऊचुः- दुःखमेव महाभागे त्यज कायविनाशनम् । नास्ति कस्य कुले दोषो देवैः पापं समाश्रितम्
जिह्ममुक्तं पुरा तेन ब्रह्मणा हरसंनिधौ । देवैश्चापि स हि त्यक्तो ब्रह्माऽपूज्यतमोऽभवत्
ब्रह्महत्या प्रयुक्तोऽसौ देवराजोपि पश्य भोः । देवैः सार्धं महाभागस्त्रैलोक्यं परिभुंजति
गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरा । परदाराभिगामी स देवत्वे परिवर्त्तते
ब्रह्महत्योपमं कर्म दारुणं कृतवान्हरः । ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते
देवानमंतितं देवमृषयो वेदपारगाः । आदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत्
लोकानमंतितं देवं देवाद्याः सचराचराः । कृष्णो भुंक्ते महाशापं भार्गवेण कृतं पुरा
गुरुभार्यांगतश्चंद्रः क्षयी तेन प्रजायते । भविष्यति महातेजा राजराजः प्रतापवान्
पांडुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरः । गुरोश्चैव वधार्थाय अनृतं स वदिष्यति
एतेष्वेव महत्पापं वर्तते च महत्सु च । वैगुण्यं कस्य वै नास्ति कस्य नास्ति च लांछनम्
भवती स्वल्पदोषेण विलिप्तासि वरानने । उपकारं करिष्यामस्तवैव वरवर्णिनि
तवांगे ये गुणाः संति सत्यस्त्रीणां यथा शुभे । अन्यत्रापि न पश्यामस्तान्गुणांश्चारुलोचने
रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभे । शीलमेव द्वितीयं च तृतीयं सत्यमेव च
आर्जवत्वं चतुर्थं च पंचमं धर्ममेव हि । मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने
शुद्धत्वं सप्तमं बाले अंतर्बाह्येषु योषितम् । अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल
सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा । पातिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि
तैस्त्वं संभूषिता बाले मा बिभेषि वरानने । येनोपायेन ते भर्ता भविष्यति सुधर्मधृक्
तमुपायं प्रपश्यामस्तवार्थं वयमेव हि । तामूचुस्ता वराः सख्यो मा त्वं वै साहसं कुरु
सूत उवाच- एवमुक्ता सुनीथा सा पुनरूचे सखीस्तु ताः । कथयध्वं ममोपायं येन भर्ता भविष्यति
तामूचुस्ता वरा नार्यो रंभाद्याश्चारुलोचनाः । रूपमाधुर्यसंयुक्ता भवती भूतिवर्द्धनी
ब्रह्मशापेन संभीता वयमत्र समागताः । तां प्रोचुश्च विशालाक्षीं मृत्योः कन्यां सुलोचनाम्
विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम् । सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम्
विद्याबलं ततो दद्युस्तस्यैताः सुखदायकम् । यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम्
तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत् । विद्यायां हि सुसिद्धायां सा सुनीथा सुनंदिता
भ्रमत्येवं सखीभिस्तु पुरुषान्सा विपश्यति । अटमानागता पुण्यं नंदनं वनमुत्तमम्