अपां संस्पर्शनात्पानात्स्नानात्तत्र महाधियः । मुनयः सिद्धिमायांति बाह्याभ्यंतरक्षालिताः
शुचिष्मंतो भवंत्येते लोकाः सर्वे चराचराः । आपः शांताः सुशीताश्च मृदुगात्राः प्रियंकराः
निर्मला रसवत्यश्च पुण्यवीर्या मलापहाः । तथा संतस्त्वया ज्ञेया निषेव्याश्च प्रयत्नतः
यथा वह्निप्रसंगाच्च मलं त्यजति कांचनम् । तथा सतां हि संसर्गात्पापं त्यजति मानवः
सत्यवह्निः प्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा । सत्येन दीप्ततेजास्तु ज्ञानेनापि सुनिर्मलः
अत्युष्णो ध्यानभावेन अस्पृश्यः पापजैर्नरैः । सत्यवह्नेः प्रसंगाच्च पापं सर्वं विनश्यति
तस्मात्सत्यस्य संसर्गः कर्तव्यः सर्वथा त्वया । पापभारं परित्यज्य पुण्यमेवं समाश्रय
सूत उवाच- एवं पित्रा सुनीथा सा दुःखिता प्रतिबोधिता । नमस्कृत्य पितुः पादौ गता सा निर्जनं वनम्
कामं क्रोधं परित्यज्य बाल्यभावं तपस्विनी । मोहद्रोहौ च मायां च त्यक्त्वा एकांतमास्थिता
तस्याः सख्यः समाजग्मुः क्रीडार्थं लीलयान्विताः । तां ददृशुर्विशालाक्ष्यः सुनीथां दुःखभागिनीम्
ध्यायंतीं चिंतयानां तामूचुश्चिंतापरायणाः । कस्माच्चिंतसि भद्रे त्वमनया चिंतयान्विता
तन्नो वै कारणं ब्रूहि चिंतादुःखप्रदायिनी । एकैव सार्थकी चिंता धर्मस्यार्थे विचिंत्यते
द्वितीया सार्थका चिंता योगिनां धर्मनंदिनी । अन्या निरर्थिका चिंता तां नैव परिकल्पयेत्
कायनाशकरी चिंता बल तेजः प्रणाशिनी । नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत्
तृष्णां मोहं तथा लोभमेतांश्चिंता हि प्रापयेत् । पापमुत्पादयेच्चिंता चिंतिता च दिने दिने
चिंताव्याधिप्रकाशाय नरकाय प्रकल्पयेत् । तस्माच्चिंतां परित्यज्य चानुवर्तस्व शोभने
अर्जितं कर्मणा पूर्वं स्वयमेव नरेण तु । तदेव भुंक्तेऽसौ जंतुर्ज्ञानवान्न विचिंतयेत्
तस्माच्चिंतां परित्यज्य सुखदुःखादिकं वद । तासां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत्
सूत उवाच- यथा शप्ता वने पूर्वं सुशंखेन महात्मना । तासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम्
आत्मनश्च महाभागा दुःखेनातिप्रपीडिता । सुनीथोवाच- अन्यच्चैव प्रवक्ष्यामि सख्यः शृण्वंतु सांप्रतम्
मदीयरूपसंपत्ति वयः सगुणसंपदः । विलोक्य तातश्चिंतात्मा संजातो मम कारणात्
देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः । मां च हस्ते विगृह्यैव सर्वान्वाक्यमुदाहरत्
गुणयुक्ता सुता बाला ममेयं चारुलोचना । दातुकामोस्मि भद्रं वो गुणिने सुमहात्मने
मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तदा । तमूचुर्भाषमाणं ते देवा इंद्र पुरोगमाः
तव कन्या गुणाढ्येयं शीलानां परमो निधिः । दोषेणैकेन संदुष्टा ऋषिशापेन तेन वै
अस्यामुत्पत्स्यते पुत्रो यस्य वीर्यात्पुमान्किल । भविता स महापापी पुण्यवंशविनाशकः
गंगातोयेन संपूर्णः कुंभ एव प्रदृश्यते । सुरायाबिन्दुनालिप्तो मद्यकुम्भः प्रजायते
पापस्य पापसंसर्गात्कुलं पापि प्रजायते । आरनालस्य वै बिंदुः क्षीरमध्ये प्रयाति चेत्
पश्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत् । तद्वद्विनाशयेद्वंशं पापः पुत्रो न संशयः
अनेनापि हि दोषेण तवेयं पापभागिनी । अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम