तमेवघातयेद्यो वै तस्य पापं शृणुष्व हि । पापात्मा जायते पुत्रः किल्बिषं लभते बहु
ताडंतं ताडयेद्यो वै क्रोशंतं क्रोशयेत्पुनः । तस्य पापं स वै भुंक्ते ताडितस्य न संशयः
स वै शांतः स जितात्मा ताडयंतं न ताडयेत् । निर्दोषं प्रति येनापि ताडनं च कृतं सुते
पश्चान्मोहेन पापेन निर्दोषेऽपि च ताडयेत् । निर्दोषं प्रति येनापि हृद्रोगः क्रियते वृथा
निर्दोषं ताडयेत्पश्चान्मोहात्पापेन केनचित् । स पापी पापमाप्नोति निर्दोषस्य शरीरजम्
निर्दोषो घातयेत्तं वै ताडंतं पापचेतसम् । पुनरुत्थाय वेगेन साहसात्पापचेतनम्
पापकर्तुश्च यत्पापं निर्दोषं प्रति गच्छति । ताडनं नैव तस्माद्वै कार्यं दोषवतोऽपि च
दुष्कृतं च महत्पुत्रि त्वयैव परिपालितम् । शप्ता तेनापि याद्यैव तस्मात्पुण्यं समाचर
सतां संगं समासाद्य सदैव परिवर्तय । योगध्यानेन ज्ञानेन परिवर्तय नंदिनि
सतां संगो महापुण्यो बहुश्रेयो विधायकः । बाले पश्य सुदृष्टांतं सतां संगस्य यद्गुणम्
अपां संस्पर्शनात्पानात्स्नानात्तत्र महाधियः । मुनयः सिद्धिमायांति बाह्याभ्यंतरक्षालिताः
शुचिष्मंतो भवंत्येते लोकाः सर्वे चराचराः । आपः शांताः सुशीताश्च मृदुगात्राः प्रियंकराः
निर्मला रसवत्यश्च पुण्यवीर्या मलापहाः । तथा संतस्त्वया ज्ञेया निषेव्याश्च प्रयत्नतः
यथा वह्निप्रसंगाच्च मलं त्यजति कांचनम् । तथा सतां हि संसर्गात्पापं त्यजति मानवः
सत्यवह्निः प्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा । सत्येन दीप्ततेजास्तु ज्ञानेनापि सुनिर्मलः
अत्युष्णो ध्यानभावेन अस्पृश्यः पापजैर्नरैः । सत्यवह्नेः प्रसंगाच्च पापं सर्वं विनश्यति
तस्मात्सत्यस्य संसर्गः कर्तव्यः सर्वथा त्वया । पापभारं परित्यज्य पुण्यमेवं समाश्रय
सूत उवाच- एवं पित्रा सुनीथा सा दुःखिता प्रतिबोधिता । नमस्कृत्य पितुः पादौ गता सा निर्जनं वनम्
कामं क्रोधं परित्यज्य बाल्यभावं तपस्विनी । मोहद्रोहौ च मायां च त्यक्त्वा एकांतमास्थिता
तस्याः सख्यः समाजग्मुः क्रीडार्थं लीलयान्विताः । तां ददृशुर्विशालाक्ष्यः सुनीथां दुःखभागिनीम्
ध्यायंतीं चिंतयानां तामूचुश्चिंतापरायणाः । कस्माच्चिंतसि भद्रे त्वमनया चिंतयान्विता
तन्नो वै कारणं ब्रूहि चिंतादुःखप्रदायिनी । एकैव सार्थकी चिंता धर्मस्यार्थे विचिंत्यते
द्वितीया सार्थका चिंता योगिनां धर्मनंदिनी । अन्या निरर्थिका चिंता तां नैव परिकल्पयेत्
कायनाशकरी चिंता बल तेजः प्रणाशिनी । नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत्
तृष्णां मोहं तथा लोभमेतांश्चिंता हि प्रापयेत् । पापमुत्पादयेच्चिंता चिंतिता च दिने दिने
चिंताव्याधिप्रकाशाय नरकाय प्रकल्पयेत् । तस्माच्चिंतां परित्यज्य चानुवर्तस्व शोभने
अर्जितं कर्मणा पूर्वं स्वयमेव नरेण तु । तदेव भुंक्तेऽसौ जंतुर्ज्ञानवान्न विचिंतयेत्
तस्माच्चिंतां परित्यज्य सुखदुःखादिकं वद । तासां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत्
सूत उवाच- यथा शप्ता वने पूर्वं सुशंखेन महात्मना । तासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम्
आत्मनश्च महाभागा दुःखेनातिप्रपीडिता । सुनीथोवाच- अन्यच्चैव प्रवक्ष्यामि सख्यः शृण्वंतु सांप्रतम्