आनंदकंद कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम् । पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शांतिद शंखपाणे
संसारदारुणहुताशनतापदग्धं पुत्रादिबंधुमरणैर्बहुशोकतापैः । ज्ञानांबुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ
एवं स्तोत्रं समाकर्ण्य त्वंगस्यापि महात्मनः । दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम्
शंखचक्रगदापाणिं पद्महस्तं महाप्रभुम् । वैनतेयसमारूढमात्मरूपं प्रदर्शितम्
सर्वाभरणशोभांगं हारकंकणकुंडलैः । राजमानं परं दिव्यं निर्मलं वनमालया
अंगस्याग्रे हृषीकेशः शोभमान महत्प्रभः । श्रीवत्सांकेन पुण्येन कौस्तुभेन जनार्दनः
दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः । स उवाच महात्मानं तमंगमृषिसत्तमम्
भो भो विप्र महाभाग श्रूयतां वचनं शुभम् । मेघगंभीरघोषेण समाभाष्य द्विजोत्तमम्
तपसानेन तुष्टोस्मि वरं वरय शोभनम् । तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम्
दीप्यमानं विराजंतं विश्वरूपं जनेश्वरम् । पादांबुजद्वयं तस्य प्रणम्य च पुनःपुनः
हर्षेण महताविष्टस्तमुवाच जनार्दनम् । दासोहं तव देवेश शंखचक्रगदाधर
वरं मे दातुकामोसि देहि त्वं वंशजं सुतम् । दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः
तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम् । सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपंडितम्
दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम् । त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम्
यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् । ब्रह्मण्यं वेदविद्वांसं सत्यसंधं जितेंद्रियम्
अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम् । वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम्
शांतं तु तपसोपेतं सर्वशास्त्रविशारदम् । वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसंनिभम्
ईदृशं देहि मे पुत्रं दातुकामो यदा वरम् । श्रीवासुदेव उवाच- एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति
अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते । तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति
उद्धरिष्यति यः सत्यैः पितरं च पितामहम् । भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम्
इत्युक्त्वा देवदेवेशस्तमंगं प्रति स द्विज । कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय
तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम् । स भविष्यति धर्मात्मा मत्प्रसादान्महामते
सर्वज्ञः सर्ववेत्ता च यादृशो वांछितस्त्वया । एवं वरं ततो दत्वा अंतर्धानं गतो हरिः
ऋषय ऊचुः- शप्ता गंधर्वपुत्रेण सुशंखेन महात्मना । तस्य शापात्कथं जाता किं किं कर्म कृतं तया
सा लेभे कीदृशं पुत्रं तस्य शापाद्द्विजोत्तम । सुनीथायाश्च चरितं त्वं नो विस्तरतो वद
सूत उवाच- सुशंखेनापि तेनैव सा शप्ता तनुमध्यमा । पितुः स्थानं गता सा तु सुनीथा दुःखपीडिता
पितरं चात्मनश्चैव चरितं च प्रकाशितम् । श्रुतवान्सोपि धर्मात्मा मृत्युः सत्यवतां वर
तामुवाच सुनीथां तु सुतां शप्तां महात्मना । भवत्या दुष्कृतं पापं धर्म तेजः प्रणाशनम्
कस्मात्कृतं महाभागे सुशांतस्य हि ताडनम् । विरुद्धं सर्वलोकस्य भवत्या परिकल्पितम्
कामक्रोधविहीनं तं सुशांतं धर्मवत्सलम् । तपोमार्गे विलीनं च परब्रह्मणि संस्थितम्